________________
सटीकम् ।
इष्टान्कामानुपनयति यः प्राक्तनं पुण्यपाकं
तं शंसन्ति स्फुटमनुचरा राजराजस्य तृप्ताः। अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै
रुद्रायद्भिर्धनपतियशः किन्नरैर्यत्र सार्धम् ॥ ४॥ इष्टानिति ॥ यत्र अलकायाम् । अक्षय्यान्तर्भवननिधयः भवनस्यान्तरन्तर्भवनं अक्षय्याः क्षयरहिताः अन्तर्भवननिधयो येषां ते तथोक्ताः । यथेष्टभोगसम्भावनार्थमिदं विशेषणम् । प्रत्यहं प्रतिदिनम् । तृप्ताः सर्वविषयसन्तृप्ताः । राजराजस्य ऐलविलस्य । अनुचराः भृत्याः । “ भृत्योनुजीव्यनुचरः” इति धनञ्जयः । धनपतियशः एकपिङ्गस्य कीर्तिम् । उद्गायद्भिः उच्चैर्गायद्भिः । देवगानस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थः। रक्तकण्ठैः रक्तो मधुरः कण्ठध्वनिर्येषां तैः । किन्नरैः देवविशेषैः । साधै सत्रा । " साधे तु साकं सत्रा समं सह" इत्यमरः । यः पुण्यपाकः। इष्टान् अभीष्टान्। कामान् कामभोगान् । उपनयति प्रापयति । प्राक्तनं प्राग्भवम् । पुण्यपाकं सुकृतपरिपाकम् । स्फुटं प्रस्फुटम् । शंसन्ति स्तुवन्ति ॥४॥ यस्यां मन्द्रानकपटुरवैर्बोधिता वित्तभर्तु त्या
भृङ्गैः सममुपहितप्रीतयः कामदायि । वैभ्राजाख्यं विबुधवनितावारमुख्यासहायाः
बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥५॥११॥८॥ यस्यामिति ॥ यस्याम् अलकायाम् । मन्द्रानकपटुरवैः आनकानां पटुरवाः तथोक्ताः मन्द्रैः गम्भीरैः आनकपटुरवैःबोधिताः ज्ञापिताः। उपहितप्रीतयः विधृतसन्तोषाः । विबुधवनितावारमुख्या सहायाः विबुधवनिताः अप्सरसः ता एव वारमुख्याः वेश्याविशेषाः सहायाः
१ तज्जन्यत्वात्तव्यपदेशः ।