________________
२८४
पार्धाभ्युदयकाव्यं सेव्यन्त इति सेव्यमानाः । तटवनरुहां तटवनेषु रोहन्तीति तटवनरुहस्तेषाम् । किए। मन्दाराणां सुरद्रुमाणाम् । छायया अनातपेन । वारितोष्णाः शमिततापाः । निधिभुगधिपाः यथैद्राः । कनककदलीषण्डभाजां सुवर्णकदलीषण्डयुतानाम् । क्रीडाद्रीणां कृतकाचलानाम् । उपान्ते समीपे । स्त्रीभिः स्वर्वनिताभिः । साधै साकम् । अभीक्ष्णं शश्वत् । दीव्यन्ति क्रीडन्ति ॥ २॥ सौन्दर्यस्य प्रथमकलिकां स्त्रीमयी स्रष्टुमन्यां
व्यातन्वाना जयकदलिका मीनकेतोर्जिगीषोः । अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः
सङ्क्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥॥१०॥४॥ सौन्दर्यस्येति ॥ यत्र अलकापुर्याम् । जिगीषोः जेतुमिच्छर्जिगीषुः तस्य जयशीलस्य । मीनकेतोः मकरध्वजस्य । जयकदलिकाः जयपताकिकाः । अमरप्रार्थिताः अमरैर्दिविजैः प्रार्थिताः काश्रिताः सुन्दर्य इत्यर्थः । कन्या यक्षकुमार्यः । “कन्या कुमारिका नार्यः" इति विश्वः । सौन्दर्यस्य सुभगत्वस्य । प्रथमकलिकां प्रथमकोरकभूताम् । “ कलिका कोरकः पुमान् ” इत्यमरः । स्त्रीमयीं रमणीरूपाम् । अन्याम् अपूर्वाम् । सृष्टिं सर्जनम् । ब्यातन्वानाः प्रकटी कुर्वन्त्यस्सत्यः । कनकसिकतामुष्टिनिक्षेपगूढैः कनकस्य सिकतासु मुष्टीनां विक्षेपणेन संवृतैः । अथवा कनकसिकतानां मुष्टिषु विक्षेपेण गूढैः । अत एव अन्वेष्टव्यैः मृग्यैः । मणिभिः रत्नैः । सङ्कीडन्ते रमन्ते । “ क्रीलोकूङ्” इति तङ् । गूढमणिसञ्ज्ञया देशिकक्रीडया सम्यक् क्रीडन्त इत्यर्थः । “रत्नादिभिर्वालुकादौ गुप्तिद्रष्टव्यकर्मभिः । बालिकाभिः कृता क्रीडा नाके गूढमणिः स्मृता" कासक्रीडा गूढमणिगुप्तकेलिस्तुलायनम् । पिण्डं कञ्चुकदण्डाद्यैः स्मृतादितिककेलयः ” इति शब्दार्णवे ॥ ३॥