________________
१८०
पार्श्वाभ्युदयकाव्यं
ब्रीडा । विगलति । ततः पश्चात् । घर्मतोयं स्वेदाम्बु । विगलवि
निपतति ॥ ११४ ॥
आक्षिप्तेषु प्रियतमकरैरंशुकेषु प्रमोदादन्तलींलातरलितदृशो यत्र नालं नवोढाः । शय्योत्थायं वदनमरुताऽपासितुं धावमाना अचिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ॥ ११५ ॥
आक्षिप्तेष्विति ।। यत्र ऐलविलधामनि । प्रमोहात् प्रकृष्टो मोह : प्रमोहस्तस्मात् । प्रियतमकरैः प्राणेशपाणिभिः । अंशुकेषु वस्त्रेषु । “ चैलं वसनमंशुकम् " इत्यमरः । आक्षिप्तेषु अवहृतेषु सत्सु । नवोढाः नवपरिणीताः स्त्रियः । अन्तर्लीलातरलितदृशः अन्तर्विलासेन चञ्चला दृशो यासां ताः । अर्चिस्तुङ्गान् अचिभिर्मयूखैस्तुङ्गान् । “ अर्चिर्मयूखशिखयो : " इति विश्वः । रत्नप्रदीपान् रत्नान्येव प्रदीपान् । शय्योत्थायं शय्याया उत्थाय शय्योत्थायम् । यतूर्णेपादानेनेतिणमन्तत्वादव्ययम् । अभिमुखं सम्मुखम् यथा तथा । धावमानाः पलायमानाः । प्राप्यापि लब्ध्वापि । वदनमरुता मुखवायुना । अपासितुं नाशयितुम् । नालं समर्था न भवन्ति । अत्राङ्गनानां रत्नप्रदीपनिर्यापणप्रवृत्त्या मौग्ध्यं व्यज्यते ॥ ११५ ॥
वस्त्रापाये जघनमभितो दृष्टिपातं निरोद्धुं
यूनां कॢप्ता सुरभिरचिता यत्र मुग्धाङ्गनानाम् । कम्पायत्तात्करकिसलयादन्तराले निपत्य
ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ११६ ॥ ८॥५॥
वस्त्रापाय इति ।। यत्र धनदनगर्याम् । वस्त्रापाये वसनापगमे सति । हीमूढानां लज्जया मूढानाम् । मुग्धाङ्गनानां मुग्धस्त्रीणाम् । जघन