________________
सटीकम् ।
१८१ मभितः जघनस्य सर्वतः । यूनां तरुणानाम् । दृष्टिपातं दृग्व्यापृतिम् । निरोद्धुम् आवरणाय । क्लप्ता कल्पिता । सुरभिरचिता सुरभिनिर्मिता । चूर्णमुष्टिः चूर्णस्य कुङ्कमादेर्मुष्टिः । कम्पायत्तात् । " अधीनो निन्न आयत्तः " इत्यमरः । ब्रीडावशादित्यर्थः । करकिसलयात् हस्तपल्लवात् । “ पल्लवोस्त्री किसलयम्" इत्यमरः । अन्तराले मध्ये । निपत्य पतित्वा । विफलप्रेरणा व्यर्थव्यापारा । भवति ॥ ११६ ॥ प्रत्यासन्नैः शिखरखचितैरुन्मयूखैर्विचित्र
श्चित्रा रवैनभसि वितताः शक्रचापानुकारैः। बिभ्रत्युच्चैः सजलजलदा सद्वितानस्य लीलां
नेत्रा नीता सततगतिना यद्विमानाप्रभूमिः ॥ ११७॥ · प्रत्यासग्नैरिति ॥ प्रत्यासन्नैः समीपस्थैः । शिखरखचितैः शृङ्गेषु खचितैः । उन्मयूखैः उद्गता मयूखा येषां तैः । उद्गतकिरणैः । विचित्रैः बहुविधैः । रत्नैः मणिभिः । चित्राः आश्चर्यभूताः । नभसि सुरवर्त्मनि। शक्रचापानुकारैः इन्द्रायुधानुकरणैः। वितताः विस्तृताः। यद्विमानाग्रभूमिः यस्या अलकाया विमानानाम् अग्रभूमिः उपरि भूतलानि । नेत्रा नयतीति नेता तेन प्रेरकेण । सततगतिना सततं गतिर्यस्य तेन वायुना । “ मातरिश्वा सदागतिः” इत्यमरः । नीताः प्रापिताः । सजलजलदाः जलसहितमेघाः । सद्वितानस्य समीचीनस्य उल्लोचस्य । “ अस्त्री वितानमुल्लोचः” इत्यमरः । लीलां विलासम् । उच्चैः परम् । बिभ्रति धरन्ति ॥ ११७ ॥
अध्यासीना भवनवलभिं शारदी मेघमाला यत्रामुक्तप्रतनुविसरच्छीकरासारधारा ।