________________
. सटीकम् । ..
१७९ च मण्डले । लाञ्छनेऽपि च बिम्बोऽस्त्री न द्वयोबिम्बिकाफले " इति भास्करः । कामिनीनां कान्तानाम् । नीवीबन्धोच्छसितशिथिलं नीवीबन्धस्य उच्छुसितेन त्रुटितेन शिथिलं स्रस्तम् । “ नीवी पणे प्रन्थिभेदे स्त्रीणां जघनवाससि” इति विश्वः । काञ्चीदाना रशनया। किमपि कियत् । विधृतम् अवलम्बितम् । क्षौमं वासः दुकूलं वस्त्रम् । “झौमं दुकूलम् ।' 'वस्त्रमाच्छादनं वासः” इत्युभयत्राप्यमरः । नाभेरधस्तात् नाभेरधोभागे । हारि सुभगम् । “ हृद्यं हारि मनोहरं च रुचिरम्” इति हलायुधः । कामप्रसवभवनं कामोत्पत्तिस्थानम् । नूनं निश्चयेन । यूनां तरुणानाम् । “वयस्थस्तरुणो युवा" इत्यमरः । आदेष्टुकामम् उपदेष्टुकामम् । शनैः मन्दम् । जिगलिषु गलितमिच्छु लक्ष्यते विषयीक्रियते ॥ ११३ ॥ यस्यां कामद्विपमुखपटच्छायमास्रस्तनीवि
श्रीमच्छ्रोणीपुलिनवरणं वारि काञ्चीविभङ्गम् । पूर्व लजा विगलति ततो धर्मतोयं वधूनां
क्षौमं रागावनिभृतकरेष्वाक्षिपत्सु प्रियेषु ॥ ११४ ॥ यस्यामिति ॥ यस्यां राजराजपुर्याम् । वधूनां सीमन्तिनीनाम् । कामद्विपमुखपटच्छायं कामगजमुखवस्त्रसदृशम् । " छाया बिम्बमनाकान्तिः प्रतिबिम्बमनातपः” इत्यमरः । आस्रस्तनीवि ईषच्छिथिलिता नीवी यस्य तत् । “ नीवी परिपणे ग्रन्थौ स्त्रीणां जधनवाससि” इति विश्वः । श्रीमच्छ्रोणीपुलिनवरणं शोभावनितम्बमेव पुलिनं तस्याऽऽवरणम् । काञ्चीविभङ्गं काञ्ची रशनैव विभङ्गस्तरङ्गो यस्य तत् । “ भङ्गः खड्ने पराजये । तरङ्गे रोगभेदे च" इति भास्करः । वारि वारीव वारि जलोपमम् । क्षौमं दुकूलम् । अनिभृतकरेषु मदनपारवश्येन चपलहस्तेषु । प्रियेषु प्राणकान्तेषु । रागात् मोहात् । आक्षिपत्सु आहरत्सु सत्सु । पूर्व प्राक् । लजा