________________
१७६
पार्श्वभ्युदयकाव्यं रलिङ्गमेतत् । कर्णे श्रोत्रे । हारि रम्यम् । शिरीषं शिरीषकुसुमम् । ग्रीष्मलिङ्गमेतत् । सीमन्ते च शिरोरुहपद्धतौ । “ स्त्रीणां पुंसि च सीमन्तः" इत्यमरः । त्वदुपगमजं तवोपगमनेन मेघागमनेन जायते इति तथोक्तम् । नीपं कदम्बप्रसूनम् । “ अथ स्थलकदम्बके । नीपः स्यात्पुलकः श्रीमान्प्रवृषेण्यो हलिप्रियः ” इति शब्दार्णवे । वर्षालिङ्गमेतत् । तत्र अलकापुरि । षण्णां ऋतूनां षट्कालानाम् । व्यतिकरं परस्यानुप्रवेशनम् । “ व्यतिकरः समाख्यातो व्यसनव्यतिषङ्गयोः" इति विश्वः । व्यक्तिव्यक्तं प्रकाशन प्रकटितम् । अहो आश्चर्य भवेदिति शेषः ॥ १०८ ॥ शक्रंमन्याः परिणतशरच्चन्द्रिकानिर्मलानि
प्रोत्तुङ्गानि प्रणयविवशाः स्वापतेयोष्मवन्ति । आक्रीडन्ते प्रिययुवतिभिः सर्वकामाभितृप्ता
यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि ॥१०९ ॥ शक्रंमन्या इति॥ यस्याम् अलकायाम् । शक्रमन्याः इन्द्रमन्याः। शक्रंमन्यन्ते आत्मनः शक्रंमन्याः । “ कर्तुः खः” इति खत्यः " प्रणयविवशाः प्रीतिवशगाः । सर्वकामाभितृप्ताः सर्वाभिलाषैस्तृप्ताः। यक्षाः वित्तेशाः । परिणतशरच्चन्द्रिकानिर्मलानि सम्पूर्णशरत्कालज्योत्स्नेव निर्मलानि । प्रोत्तुङ्गानि उन्नतानि । “उच्चप्रांशून्नतोदय़ोच्छ्रितास्तुङ्गे” इत्यमरः । स्वापतेयोष्मवन्ति स्वापतेयस्य उष्मवन्ति उष्णवन्ति । " द्रव्यं वित्तं स्वापतेयं " इत्यमरः । सितमणिमयानि स्फटिकमयानि चन्द्रकान्तमणिमयानि च हर्म्यस्थलानि एत्य गत्वा । प्रिययुवतिभिः स्त्रीभिः सह । आक्रीडन्ते रमन्ते ॥ १०९ ॥ यत्र ज्योत्स्नाविमलिततलान्याश्रिताः कुट्टिमानि प्रासादानां हरिमणिमयान्यासवामोदवन्ति ।