________________
सटीकम् ।
१७५ कल्पवृक्षप्रसूते कल्पवृक्षेषु जाते । आकल्पे आभरणे । सत्येव विद्यमान एव । ताभिः यक्षस्त्रीभिः । चूडापाशे केशपाशे । नवकुरबकं प्रत्यग्रकुरबकप्रसूनम्। “अम्लानस्तु महासहा” तत्र शोणे कुरबकम्" इत्यमरः । कर्णे श्रोत्रे । जातावेकवचनम् । चारु पेशलम् । “सुन्दरं रुचिरं चारु” इत्यमरः । शिरीष पुष्पविशेषम् । " शिरीषस्तु कपीतनः । भण्डिलोऽपि" इत्यमरः । आत्तानुरागं आत्तः प्राप्तोऽनुरागो यस्मिन् कर्मणि तत् । यत् यस्मात् कारणात् । उपनिहितं संधृतम् । तस्मात् कारणात् । अभिनवप्रीतिम् अभिनवस्य प्रीतिस्ताम् । आहत्य गृहीत्वा । यक्षस्त्रीणां यक्षनारीणाम् । किञ्चित् ईषद्वस्तु तुच्छमित्यर्थः । प्रियं प्रीतिकरम् । यक्षस्त्रीणां कल्पवृक्षदत्तानाभरणे सत्यपि 'लोकोभिनवप्रियः' इति वचनात् पुष्पाण्यपि प्रमोदकराणि भवेयुरिति भावः ॥ १०७ ॥
सम्प्रति सर्वदा सर्वञ्जसम्पत्तिमाहपाणी पद्मं कुरबकयुतं स्वोचिते धाम्नि कुन्दं __ लोध्रो रेणुस्तनपरिसरे हारि कर्णे शिरीषम् । व्यक्तिव्यक्तं व्यतिकरमहो तत्र षण्णामृतूनां ___ सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥१०८॥६॥२॥ पाणाविति॥ यत्र पुरि । वधूनां नारीणाम् । पाणौ हस्ते । “पञ्चशाखः शयः पाणिः ” इत्यमरः । पद्मं पङ्कजम् । शरल्लिङ्गमेतत् । स्वोचिते स्वयोग्ये । धाम्नि स्थाने केशपाश इत्यर्थः । कुरबकयुतं कुरबकपुष्पसहितम् । वसन्तलिङ्गमेतत् । कुन्दं कुन्दकुसुमम् । कुन्दानां यद्यपि “ माध्यं कुन्दम् ” इत्यभिधानात् । शिशिरत्वमस्ति तथापि हेमन्ते प्रादुर्भावः । शिशिरे प्रौढत्वमित्यवस्थाभेदेन हेमन्तकार्यत्वम् । कुन्दपुष्पमपि केशपाशे । स्तनपरिसरे पयोधरप्रदेशे । “ स्मृतः परिसरो मृत्युदेवोपान्तप्रदेशयोः ” इति विश्वः । लौध्रः लोध्रसम्बन्धी । रेणुः धूलिः । “ रेणुर्द्वयोः स्त्रियां धूलि: " इत्यमरः । शिशि