________________
१७४
पार्धाभ्युदयकाव्यं यत्र स्त्रीणां स्मितरुचिलसज्योत्स्नया बद्धशोभा
प्रालेयांशोः श्रियमुपहसत्यस्तदोषाऽकलङ्का । भूयो लक्ष्मी हिममहिमजां मानयन्तीभिराभि
र्नीता लोध्रप्रसवरजसा पाण्डुतामाननश्रीः ॥ १०६ ॥ यत्रेति ॥ यत्र अलकायाम् । स्त्रीणां वनितानाम् । स्मितरुचिलसज्ज्योत्स्नया स्मितस्य ईषद्धासस्य रुचिः कान्तिः विलसन्ती चासौ ज्योत्स्ना च स्मितरुचिरिव विलसज्ज्योत्स्ना तया । बद्धशोभा रचितद्युतिः । अस्तदोषा अस्तो नष्टो दोषो अस्तंगमनोपरागादिदूषणं यस्याः सा विनष्टरात्रिश्च । “ सायं निशवयं दोषोऽस्त्री वा ना दूषणाघयोः” इत्युभयत्रापि भास्करः। अकलङ्का कलङ्करहिता । एतद्विशेषणद्वयं चन्द्रादप्यधिकगुणत्वं साधयति । भूयः पुनः । हिममहिमजां हिमस्य हेमन्तामहिम्ना सामर्थेन जाताम् । लक्ष्मीम् उद्यानशोभाम् । मानयन्तीभिः सत्कुर्वन्तीभिः । आभिः स्त्रीभिः । लोध्रप्रसवरजसा लोध्रप्रसवानां लोध्रपुष्पाणां रजसा परागेण । “ गालवः शाबरो लोध्रः' 'स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने' 'पांसुर्ना न द्वयोरजः” इत्यमरः । पाण्डुतां गौरत्वम् । नीता प्रापिता । आननश्रीः मुखलक्ष्मीः । प्रालेयांशोः चन्द्रमसः । " हिमांशुश्चन्द्रमाश्चन्द्रः” इत्यमरः। श्रियं सम्पत्तिम् । उपहसति परिहसति ॥ १०६॥
यत्राकल्पे स्वरुचिरचिते कल्पवृक्षप्रसूते . सत्येव स्यात्प्रियमभिनवप्रीतमादृत्य किञ्चित् । . यक्षस्त्रीणां यदुपतिहितं ताभिरात्तानुरागं
चूडापाशे नवकुरबकं चारु कर्णे शिरीषम् ॥ १०७॥ यत्राकल्प इति ॥ यत्र अलकापुरि । स्वरुचिरचिते स्वच्छन्दकृते।