________________
सटीकम् ।
१७३ देववासम् । व्याहसत्सु हासं कुर्वत्सु । उद्यद्वलभिषु उन्नतवलभिषु । सुधापङ्कधौतेषु सुधाकर्दमधवलितेषु । सौधेषु वितन्वन्नित्यज्योत्स्नाप्रतिहततमोवृत्तिरम्याः वितन्वन्नित्यज्योत्स्नया प्रसर्पन्त्या सार्वकालिकचन्द्रिकया प्रतिहता तमसां वृत्तिाप्तिस्तया रम्याः सुभगाः । अत्र ज्योत्स्नाया नित्यत्वं महेशस्य तदाश्रयत्वादिति भावः । प्रदोषाः रात्रिप्रवेशकालाः । “ प्रदोषो रजनीमुखम् ” इत्यमरः । स्त्रीसहायैः वनितासहचरैः । निधिभुगधिपैः निधीन भुञ्जन्तीति निधिभुजस्तेषामधिपैः यक्षनायकैः । निर्विश्यन्ते अनुभूयन्ते ॥ १०४ ॥ दृष्ट्वा यस्याः प्रकृतिचतुरामाकृति सुन्दरीणां
त्रैलोक्येऽपि प्रथमगणनामीयुषां जातलज्जा। मन्ये लक्ष्मीः सपदि विसृजेदेव संलुच्य केशान्
हस्ते लीलाकमलमलके बालकुन्दानुविद्धम् ॥ १०५ ॥ दृष्ट्वेति ॥ यस्याः पुर्याः । सुन्दरीणां रमणीनाम् । “ सुन्दरी रमणी रामा" इत्यमरः । त्रैलोक्येपि त्रिलोका एव त्रैलोक्यं तस्मिन्नपि। " भेषजादि" इति ट्यण् । प्रथमगणनां प्रथमोपमाम् । मुख्यतामित्यर्थः । ईयुषी गतवतीम् । “ लिटः कसुकानौ ” इति कसुः। " नृदुगू” इति की । प्रकृति चतुरां प्रकृत्या चतुरां निपुणाम् । आकृतिम् आकारम् । दृष्ट्वा वीक्ष्य । जातलज्जा उत्पन्नव्रीडा । “ मन्दाक्षं ह्रीत्रपा ब्रीडा " इत्यमरः । लक्ष्मीः श्रीः । सपदि शीघ्रण । “ द्राङ् मङ्क सपदि द्रुते " इत्यमरः । केशान् शिरोरुहान् । संलुच्य उत्पाट्य । हस्ते पाणौ । लीलाकमलं लीलाथै कमलम् । लीलारविन्दं हस्ते स्थितमित्यर्थः । “ अलकाश्चूर्णकुन्तलाः” इत्यमरः । जातावेकवचनम् । बालकुन्दानुविद्धं बालकुन्दैः प्रत्यग्रमाध्यकुसुमैः अनुविद्धम् अनुवेधो ग्रथनम् । नपुंसके भावे क्तः । अलकमिति पाठे बालकुन्दानुविद्धम् अभिनवमाध्यकुसुमग्रथितम् । अलकाचूर्णकुन्तलम् । कर्मणि क्तः । विसृजेदिव परिहरेदिव । मन्ये जाने ॥ १०५॥