________________
१७२
पार्श्वाभ्युदयकाव्यं
यस्यां नित्यप्रहतमुरवाम्भोदनादैः प्रतीता नृत्यन्त्युच्चैर्विरचितलयं ताण्डवैश्चित्रपिच्छाः । नानारलैरिव च निधयो निर्मिता जङ्गमास्ते
केकोत्कण्ठा भवनशिखिनो नित्यभाखत्कलापाः ॥ १०३ ॥ क्षे०।
यस्यामिति ॥ यस्यां पुर्याम् । नित्यप्रहतमुखाम्भोदनादैः नित्यं प्रहतानां मुरवाणां पणवानाम् अम्भोदानामिव नादैर्ध्वनिभिः । प्रतीताः प्रथिताः । " प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः " इत्यमरः । नानारत्नैः विविधमणिभिः । निर्मिताः रचिताः । जङ्गमाः सञ्चारिणः । निधय इव निधानवत् । " निधिर्ना शेवधिः" इत्यमरः । चित्रपिच्छाः चित्रं पिच्छं बर्ह येषां ते तथोक्ताः । केकोत्कण्ठा: केकाभिः उद्रतः कण्ठो येषां ते तथोक्ताः । नित्यभास्वत्कलापाः नित्यं भास्वन्तः कलापाः बर्हाणि येषां ते तथोक्ताः । “ कलापो भूषणे बर्हे तूणीरे संहतौ कचे " इत्यमरः । ते भवनशिखिनः क्रीडामयूराः। ताण्डवैः नर्तनैः । " ताण्डवं नटनं नाट्यम् " इत्यमरः । विरचितलयं विरचितो लयस्तालसाम्यं यस्मिन्कर्मणि तत् ताल: कालक्रियामानं लयः साम्यम् ” इत्यमरः । उच्चैः परम् । नृत्यन्ति नर्त्तनं कुवन्ति ॥ १०३ ॥
८५
ज्योत्स्नंमन्येष्वमरवसतिं व्याहसत्सु स्वभूत्या हर्म्येषूद्यद्वलभिषु सुधापङ्कधौतेषु यस्याः । निर्विश्यन्ते निधिभुगधिपैः स्त्रीसहायैर्वितन्वन्नित्यज्योत्स्नाप्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ १०४ ॥ क्षे० ।
66
ज्योत्स्नंमन्येष्विति ॥ यस्याः अलकायाः । ज्योत्स्नंमन्येषु ज्योत्स्नां मन्यन्ते इति ज्योत्स्नंमन्यानि तेषु । कर्तुः खः " इति खत्यः । ज्योत्स्नापुञ्जायमानेष्वित्यर्थः । स्वभूत्या निजैश्वर्येण । अमरवसतिं