________________
सटीकम् ।
१७१
66
पुष्पाणि येषां ते तथोक्ताः । निर्वृत्तकालनियमादित्यर्थः । ये पादपाः वृक्षाः । पादपौगोवनस्पतीः " इति धनञ्जयः । षड्ऋतुकुसुमानि षट्सु ऋतुषु जातानि कुसुमानि तथोक्तानि । यत् यस्मात् । एकशः एकदैव । प्रद्युः वितरेयुः । तत् तस्मात्कारणात् । एते वृक्षाः । कल्पद्रुमसहचराः सुरद्रुमसहकारिणः । तत्सधर्माण: "धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः " इत्यभिधानात् । ' सः समानस्य' इति सभावः । 'धर्मादन्' इति बहुव्रीहावत्यः । तत्समानस्वरूपाः । नूनं निश्चयेन । सञ्जाताः समुद्भूताः । स्युः भवेयुः ॥ १०१ ॥
तत्सान्निध्यादिव वनलताः शिक्षितास्तन्नियोगं
नानाभेदं विवरितुमलं ताश्च दिव्यं प्रसूनम् । ताभिः स्पर्धामिव च गमिता यत्र भृङ्गोपगीता
हंसश्रेणीरचितरचना नित्यपद्मा नलिन्यः ॥ १०२ ॥ क्षे०
तत्सान्निध्यादिति ॥ यत्र अलकायाम् । वनलताः विपिनवल्लयेः । तत्सान्निध्यात् तद्वृक्षसामीप्यात् । शिक्षिता इव अभ्यासविशिष्टा इव । नानाभेदं बहुविधम् । तन्नियोगं तत्कैङ्कर्य्यम् । विवरितुं विवरणाय कर्तुमित्यर्थः । अलं समर्थाः । ताभिः वनलताभिः । स्पर्धा विवादम् । गमिता इव प्रापिता इव । ताश्च नलिन्यः पद्मिन्यः । " बिसिनी पद्मिनीमुखाः " इत्यमरः । भृङ्गोपगीताः भृङ्गैरुपकूजिताः । हंसश्रेणीरचितरचना: हंसश्रेणीभिः मरालराजिभिः रचिता रचना यासां ताः रचितरशना इत्यपि पाठः श्रेयान् । तत्र हंसया रचिता रशना काचीदाम यासां ताः । स्त्रीकट्यां मेखला काथ्वी सप्तकी रशना तथा " इत्यमरः । नित्यहंसपरिवेष्टिता इत्यर्थः । नित्यपद्मा: नित्यं पद्मानि यासां ताः । नित्या पद्मा लक्ष्मीर्यासां ता इति च तथोक्ताः । दिव्यं मनोहरम् । प्रसूनं कुसुमम् । विवरितुमलमित्यत्राप्यन्वयः ॥ १०२ ॥
66