________________
१७०
पार्श्वभ्युदयकाव्यं . यस्यै शक्रः स्पृहयतितरामिष्टसर्वद्धिंभाजे
यत्रासीनाः शतमखपुरी विस्मरन्त्येव सद्यः । नान्यच्चिन्त्यं विहरणभयाद्यत्र मृत्युञ्जयानां
वित्तेशानां न खलु च वयो यौवनादन्यदस्ति ॥१०॥क्षे०। यस्य इति ॥ इष्टसर्द्धिभाजे इष्टाः सर्वर्द्धयः समस्तसम्पदो भजतीति तथोक्ता तस्यै । यस्यै अलकायै । शक्रः इन्द्रः । “ शक्रः शतमन्युः ” इत्यमरः । स्पृहयतितरां वाञ्छतितराम् । “ स्पृहेर्वेति" चतुर्थी । यत्र यस्याम् । आसीनाः स्थिताः जनाः । शतमखपुरीम् अमरावतीम् । सद्यः सपदि । विस्मरन्येव न स्मरन्त्येव । ततोप्यधिकेति भावः । यत्र पुरि । विहरणभयात् । विहारभीतेः । अन्यच्चिन्त्यम् अपरं चिन्तनीयम् । न नास्ति । मृत्युजयानां मृत्युजयन्तीति मृत्युञ्जयास्तेषाम् । वित्तेशानां यक्षाणाम् । “ वित्ताधिपः कुबेरः स्यात्प्रभौ धनिकयक्षयोः” इति शब्दार्णवे । यौवनात् तारुण्यात् । अन्यद्वयश्च वार्धक्यवयश्च । “खगबाल्यादिनोवयः” इत्यमरः । नास्ति खलु न भवति हि ॥१००॥ नूनं कल्पद्रुमसहचरास्तत्सधर्माण एते
सञ्जाताः स्युः षड्ऋतुकुसुमान्येकशो यत्प्रदधुः। अक्षीणार्द्ध ध्रुवमुपरताः पल्लवोल्लासिता ये
यत्रोन्मत्तभ्रमरनिकराः पादपा नित्यपुष्पाः ॥१०१॥ क्षे०। नूनमिति ॥ यत्र नगर्याम् । अक्षीणार्द्ध सम्पूर्णसम्पत्तिम् । तपोवैशिष्ट्यगुणविशेषम् । ध्रुवं निश्चयेन । उपगताः उपयाताः । पल्लवोल्लासिताः किसलयैः शोभिताः । उन्मत्तभ्रमरनिकराः उन्मत्ताः सन्तुष्टाः भ्रमरनिकराः भृङ्गनिवहाः येषाम् ते । नित्यपुष्पाः नित्यं
१ भ्रमरमुखरा इत्यपि० ।