________________
सटीकम् ।
१६९ यत्रत्यानामिति ॥ यत्रत्यानां यत्र भवा यत्रत्यास्तेषाम् अलकापुरजनानाम् । चित्तभर्तुः प्राणनाथात् । परत्र अन्यत्र । चित्तभर्तारं विहायान्यत्रेत्यर्थः । परपरता परवशता । न नास्ति । प्रणयिनि जने प्रणयवजने । मानभङ्गम् अभिमानच्युतिम् । विहाय मुक्त्वा । अन्यो भङ्गः । नास्ति प्रियजनतया प्रियजनसमूहेन । संगमाशानुबंधात् संसर्गाभिलाषानुबंधात् अन्यो बंधः अन्यद्वंधनं नास्ति इष्टसंयोगसाध्यात् इष्टसंयोगेन प्रियजनसमागमेन साध्यान्निवर्तनीयात् । त्वत्प्रतिकार्यादित्यर्थः । कुसुमशरजात् मदनेन जन्यात्तापात् । अन्यस्तापोऽपरस्तापः । नास्ति ॥ ९८ ॥
यत्राकल्पान्निधिषु सकलानेव सम्पादयत्सु __ नार्थी कश्चिन्न खलु कृपणो नापि निःस्वो जनोस्ति । धर्मः साक्षान्निवसति सती यामलङ्कत्य यस्मा
न्नाप्यन्यत्र प्रणयकलहाद्विप्रयोगोपपत्तिः ॥९९ ॥ क्षे०। यत्रेति ॥ यस्मात्कारणात् । धर्मः नीतिधर्मः। सतीं यां पुरीम् । अलङ्कृत्य विभूष्य । साक्षात् प्रत्यक्षेण । निवसति वर्तते । तस्मात्कारणात् । यत्र अलकापुर्याम् । निधिषु निधानेषु । सकलानेव आकल्पान् भूषणानि । “ आकल्पवेषौ नेपथ्यम् ” इत्यमरः । सम्पादयत्सु दधानेषु । कश्चिदर्थी याचकः । न नास्ति । कृपणः क्षुद्रः । “कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः ” इत्यमरः । न खलु नास्ति हि । निःस्वोपि जनो दरिद्रजनश्च । “निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्मतोऽपि सः” इत्यमरः । नास्ति । प्रणयकलहात् प्रणयजात् कलहात् । अन्यत्र परतः । विप्रयोगोपपत्तिरपि विरहप्राप्तिरपि । नास्ति ॥ ९९॥
१ नाप्यन्यस्मादित्यपि पाठः ।