________________
१६८
पार्धाभ्युदयकाव्यं पादविलिप्तः । लाक्षारागैश्च लाक्षार जनैरपि । " लाक्षाराक्षाजतुक्लीबे यावोऽलक्तो द्रुमामयः" इत्यमरः । नैशः निशि भवो नैशः । मार्गः पन्थाः । सूच्यते ज्ञाप्यते । मार्गपतितमन्दारकुसुमादिलिङ्गैरयमभिसारिकाणां पन्था इत्यनुमीयत इति भावः ॥९६ ॥ मन्ये यस्या जगति सकलेऽप्यस्ति नौपम्यमन्य
सौपम्यप्रणिहितधिया वेधसा निर्मितायाः। यामध्यास्ते कमलनिलया सम्पदश्च प्रजाना
मानन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तैः ॥ ९७ ॥ क्षे०। मन्य इति ॥ सौंपम्यप्रणिहितधिया सर्वोपमानत्वसावधानधिषणेन । वेधसा ब्रह्मणा । निर्मिताया रचितायाः । यस्याः अलकायाः पुरः । सकलेपि सर्वस्मिन्नपि । जगति लोके । अन्यत् अपरम् । औपम्यम् उपमेयवस्तु। नास्ति मन्ये न विद्यत इत्येवमहं जाने । कमलनिलया लक्ष्मीः । “ लक्ष्मीः पद्मालया पद्मा" इत्यमरः । याम् अलकाम् । अध्यास्ते अधिवसति प्रजानां जनानाम् । सम्पदश्च श्रियश्च । याम् अलकापुरम् । अध्यास्ते । अर्थवशाद्विभक्त्यादिपरिणामः । “ शीस्थासोधेराधारः” इत्याधारे द्वितीया । मन्ये इति पदमत्र वा सम्बन्धनीयम् । यत्र अलकायाम् । नयनसलिलं नेत्राम्बु । आनन्दोत्थम् आनन्दजन्यमेव । अन्यनिमित्तैः अपरैः शोकादिहेतुभिः । न न भवति ॥ ९७ ॥ यत्रत्यानां न परपरता चित्तभर्तुः परत्र
नान्यो भङ्गः प्रणयिनि जने मानभङ्गं विहाय । नान्यो बन्धः प्रियजनतया सङ्गमाशानुबन्धा
न्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् ॥ ९८ ॥ क्षे। १ तापो न कुसुमशरादिति पाठांतरं ।