________________
सटीकम् ।
१७७ रंरम्यन्ते द्रविणपतयः पूर्णकामा निकामं
ज्योतिश्छायाकुसुमरचनान्युत्तमस्त्रीसहायाः ॥ ११० ॥ योति ॥ यत्र अलकायाम् । प्रासादानां हाणाम् । ज्योत्स्नाविमलिततलानि चन्द्रिकया निर्मलितस्थलानि । हरिमणिमयानि इन्द्रनीलरत्ननिर्मितानि । आसवामोदवन्ति आसवेन पुष्परसेन आमोदवन्ति परिमलवन्ति । ज्योतिश्छायाकुसुमरचनानि ज्योतिषां ज्योतिष्काणां छायाः प्रतिबिम्बान्येव कुसुमानि तैरचितानि परिष्कृतानि । “ज्योतिष्काराग्निभाज्वलार्कपुत्रार्थाद्वरात्मसु" इति वैजयन्ती । कुट्टिमानि अधिष्ठानि । आश्रिताः संश्रिताः । उत्तमस्त्रीसहायाः ललिताङ्गनासहचराः । पूर्णकामाः सम्पूर्णाभिलाषाः । “कामोऽभिलाषस्तर्षश्च" इत्यमरः। द्रविणपतयः यक्षाः। निकामं यथेष्टम् । रंरम्यन्ते भृशं रमन्ते ॥ ११० ॥ लोलापाङ्गाः सुरसरसिकाः प्रोन्नतभ्रूविकाराः
प्राणेशानां रहसि मदनाचार्यकं कर्तुमीशाः स्वाधीनेऽर्थे विफलमिति वा वामनेत्रा न यस्या
मासेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतम् ॥ १११॥ लोलापाङ्गा इति ॥ यस्यां नगर्याम् । लोलापाङ्गाः चञ्चलापाङ्गाः। " लोलश्चलसतृष्णयोः ' ' अपाङ्गो नेत्रयोरन्ते " इत्यमरः । सुरसरसिकाः सुरसेन शृङ्गारादिरसेन रसिकाः । प्रोन्नमद्भूविकाराः प्रोच्चलद्भूभङ्गाः । प्राणेशानां प्राणनाथानाम् । रहसि रहस्ये । “विविक्तविजनच्छन्ननिःशलाकास्तथा रहः। रहश्वोपांशु चालिङ्गे" इत्यमरः । अर्थे प्रयोजने । स्वाधीने साधिते सति । विफलं न निष्फलं न भवति । इति वा एवमेव । “ उपमायां विकल्पे वा” इत्यमरः । मदनाचार्यकं मन्मथाचार्यत्वम् । “ योपान्त्याद्गुरूपोत्तमाद्वञ्' इति वुञ् “वोरकः” इत्यकः । कामरहस्योपदेशमित्यर्थः । कत्तु विधातुम् ।
१२