________________
सटीकम् ।
१६५ वीथिकाः । “ विपणिः पण्यवीथिका" इत्यमरः । आश्रयन्ति प्राप्नुवन्ति ॥ ९१ ॥ तासां पाद्यं वितरितुमिवोपह्वरे निष्कुटानां
धौतोपान्ता भवनवलभेरिन्दुपादाभिवर्षात् । यस्यां रात्रौ श्रममपथके प्रस्तुताः कामुकीनां
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥९२॥७॥४॥ तासामिति ॥ यस्यामलकायाम् । रात्रौ निशायाम् । तासां तरुणीनाम् । पाद्यं पादोदकम् । “ पाद्यं पादाय वारिणि ” इत्यमरः । वितरितुमिव वितरणायेव । निष्कुटानां गृहारामाणाम् । " गृहारामास्तु निष्कुटाः” इत्यमरः । उपह्वरे अन्तर्भागे समीपेवा । “उपह्वरं समीपे स्यादेकान्ते चाप्युपह्वरम् ” इति विश्वः । “ उपह्वरमविधाने समीपे चापि कथ्यते" इत्यभिधानात् । धौतोपान्ताः प्रक्षालितसमीपप्रदेशाः । इन्दुपादाभिवर्षात् चन्द्ररश्म्यभिषेचनात् । स्फुटजललवस्यन्दिनः उल्बणाम्बुकणस्राविणः । भवनवलभेः गृहवक्रदारुणः । " गोपानसी तु वलभी छादने वक्रदारुणि" इत्यमरः । चन्द्रकान्ताः चन्द्रकान्तशिलाः । अपथके अमार्गे । “ अपन्थास्त्वपथं तुल्ये" इत्यमरः । प्रस्तुताः प्रकृताः । कामुकीनां कामिनीनाम् । " वृषस्यन्ती तु कामुकी" इत्यमरः । श्रमम् आयासम् । व्यालुम्पन्ति अपहरन्ति ॥ ९२॥ संलक्ष्यन्ते चिरयति मनोवल्लभे कामिनीनां ।
गच्छन्तीनां स्खलितविषमं रात्रिसम्भोगहेतोः। सौभाग्यांकरिव विलसितैरातता राजमार्गा
गत्युत्कम्पादलकपतितैर्यत्र मंदारपुष्पैः ॥ ९३ ॥९॥१॥ संलक्ष्यन्त इति ॥ यत्र अलकानगर्याम् । मनोवल्लभे प्राणकान्ते।