________________
१६६
पार्श्वभ्युदयकाव्यं चिरयति विलम्बयति सति । रात्रिसम्भोगहेतोः रात्रौ सुरतक्रीडानिमित्तम् । स्खलितविषमं स्खलितेन पादस्खलितेन विषमं यथा भवति तथा गच्छन्तीनां यान्तीनाम् । कामिनीनां वामलोचनानाम् । “विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना' इत्यमरः । विलसितैः रचितैः। सौभाग्याकैरिव सुभगत्वस्य चिलैरिव । “ कलङ्काको लाञ्छनं च चिह्न लक्ष्म च लक्षणम्" इत्यमरः । गत्युत्कम्पात् गत्या गमनेनोकम्पश्चलनं तस्मात् हेतोः । अलकपतितैः अलकेभ्यः पतितैः । मन्दारपुष्पैः सुरतरुकुसुमैः । आतताः विकीर्णाः । राजमार्गाः जनपतिपथाः संलक्ष्यन्ते संदृश्यन्ते ॥ ९३ ॥
यत्रोद्याने कुसुमितलतामण्डपेषु स्थितानां __ शय्योपान्तैर्विततमधुपैरात्तसम्भोगगन्धैः । नीलोत्तंसैनिधुवनपदं सूच्यते दम्पतीनां
कृप्तच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ॥ ९४ ॥९॥२॥ यत्रेति ॥ यत्र नगर्याम् । उद्याने आक्रीडे । “पुमानाक्रीड उद्यानम्” इत्यमरः । कुसुमितलतामण्डपेषु कुसुमानि सजातान्याखिति कुसुमिताः “ सजातं तारकादिभ्यः” इति इतत्यः । ताश्च ता लताश्च तासां मण्डपास्तेषु । स्थितानां वसताम् मिथुनानाम् । आत्तसम्भोगगन्धैः सम्भृतभोगगन्धैः । विततमधुपैः आवृतमधुकरैः । शय्योपान्तैः शयनोपान्तप्रदेशैः । कृप्तच्छेदैः रचितखण्डैः । नीलो
सैः नीलोत्पलललामैः । कर्णविभ्रंशिभिः कर्णाभ्यां विभ्रंश्यन्तीति कर्णविभ्रंशीनि तैः । कनककमलैः कनकवर्णैः कमलैश्च । षष्ठया विवक्षितार्थालाभे सति मयड्विग्रहेऽध्याहारः शेषः । एवमन्यत्राप्यनुसन्धेयम् । निधुवनपदं सुरतस्थानम् । सूच्यते ज्ञाप्यते ॥ ९४ ॥ मन्दाकिन्यास्तटवनमनु क्रीडतां दम्पतीनां
पुष्पास्तीर्णाः पुलिनरचिता यत्र सम्भोगदेशाः।