________________
पार्श्वाभ्युदयकाव्यं
विरचितजटामौलिभाक् तस्य लाञ्छनात्मकस्येत्यर्थः । अनतिचरतः अतिचरतीत्यतिचरन् न अतिचरन् अनतिचरन् तस्य अनतिक्रामतः । इन्दोश्चन्द्रमसः । नातिसान्द्रम् | अलुक्समासः । विरलं यथा तथा । पतन्तः पतन्तीति पतन्तः निर्गच्छन्तः । अमलाः न विद्यते मलः कलङ्कस्पर्शो येषां ते तथोक्ताः । तन्तुजालावलम्बा: दिनानलम्बिसूत्रपुञ्जाधाराः । तद्गुणगुम्फिता इत्यर्थः । मयूखाः । " मयूखस्त्विकरज्वालासु " इत्यमरः । दम्पतीनां दयितदयितानाम् । सुरतजनितां निधुवनसंभूताम् । अङ्गग्लानिं शरीरश्रमम् । सद्यः तत्काल एव । विलयं नाशम् । नेतुं प्रापयितुम् । शक्नुयुः समर्था भवेयुः ॥ ९० ॥
एकाकिन्यो मदनविवशा नीलवासोऽवगुण्ठाः प्राप्ताकल्पा रमणवसतीर्यातुकामास्तरुण्यः । यत्रापास्ते तमसि विपणीराश्रयन्त्युत्पथेभ्यस्त्वत्संरोधापगमविशदैरिन्दुपादैर्निशीथे ॥ ९१ ॥ ७ ॥३॥
१६४
८८ अ
"
एकाकिन्य इति । यत्र यक्षधामनि । निशीथे अर्द्धरात्रे । रात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ ” इत्यमरः । त्वत्संरोधापगमविशदैः । त्वत्संरोधस्य मेघावरणस्यापगमेन विशदैर्निर्मलैः । इन्दुपादैः चन्द्ररश्मिभिः । " पादा रश्म्यङ्घ्रितुर्याश - " इत्यमरः । तमसि तिमिरे । " तमिस्रं तिमिरं तमः ।" इत्यमरः । अपास्ते निराकृते । एकाकिन्यः असहायाः । मदनविवशाः मन्मथवशगताः । नीलवासोऽवगुण्ठाः नीलैर्वासोभिः वस्त्रैरवगुण्ठा अन्तर्हिताः । " वस्वमाच्छादनं वासः इत्यमरः । प्राप्ताकल्पाः लब्धमण्डनाः । " आकल्पवेषौ नेपथ्यम् ” इत्यमरः । रमणवसतीः प्रियावासान् । यातुकामाः गन्तुकामाः । तरुण्यः युवतयः । तरुणी युवतिसमे " इत्यमरः । उत्पथेभ्यः उद्गतमार्गेभ्यः । विपणीः पण्यः
८८
""