________________
१६१
सटीकम् । वर्षाकालम् । सर्वदा अनवरतम् । प्रथयितुं प्रकाशयितुम् । अलंसम• भवन्तीति शेषः । अत्र कर्तृकर्मविशेषणानां परस्परसाम्यबिम्बप्रतिबिम्बभावेन तत्रोपमा दृश्यते ॥ ८५ ॥ प्रोच्चैः केकारवमुखरितान्नर्तयन्तो मयूरान्
हंसानुद्यत्करुणविरुतान्मानसे म्लानयन्तः। यत्राकाले विदधतितरां देवधिष्ण्येषु सन्ध्या__ सङ्गीताय प्रहतमुरजाः स्निग्धपर्जन्यघोषम् ॥८६॥१॥२॥
प्रोच्चैरिति ॥ यत्र नगर्याम्। देवधिष्ण्येषु चैत्यालयेषु । “धिष्ण्यं स्थाने गृहे भेऽग्नौ” इत्यमरः । सन्ध्यासङ्गीताय सन्ध्यासु यद्विधीयते सङ्गीतं तस्मै । प्रहतमुरजाः ताडितमृदङ्गाः । केकारवमुखरितान् केकारवेण मयूरध्वनिना मुखरितान् वाचाटितान् । मयूरान् बहिणः। " मयूरो बहिणो बहीं" इत्यमरः। प्रोच्चैरधिकं नर्तयन्तः नाटयन्तः। मानसे मानससरोवरे । उद्यत्करुणविरुतान् निर्गच्छत्करुणकूजितान् । हंसान मरालपक्षिणः । म्लानयन्तः ग्लानयन्तः । अकाले अनियतावसरे । स्निग्धपर्जन्यघोषं स्निग्धो मसृणः पर्जन्यघोषो मेघध्वनिस्तम् । “ पर्जन्यौ रसदब्देन्द्रौ” इत्यमरः । स्निग्धगम्भीरघोषमिति वा पाठः । विद्धतितरां कुर्वन्तितराम् ॥ ८६ ॥
यत्राकीर्ण विततशिखराः सानका मन्द्रघोषं विद्युद्भासा विरचिततर्नु रत्नदीपानुयाताः । सौधाभोगास्तुलयितुमलं शश्वदोघं घनाना__ मन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहायाः ॥८७॥१॥३॥ यत्रेति ॥ यत्र यक्षपुर्याम् । विततशिखराः विस्तृतशृङ्गाः। सानकाः आनकेन पटहेन सहितास्तथोक्ताः । “ आनकः पटहोऽस्त्री १ स्निग्धगम्भीरघोषमित्यपि पाठः ।