________________
१६२
पार्श्वाभ्युदयकाव्यं
शाः ।
स्यात् ” इत्यमरः । रत्नदीपानुयाताः रत्नदीपैरनुगताः । मणिमयभुवः मणिमय्यः मणिविकाराः भुवो येषु ते । " नाभक्ष्याच्छादने मयट् ” इति मयट् । अभ्रं लिहायाः अभ्रं लिहन्तीति अभ्रंलिहानि अभ्रंकषाणि । " वहाभ्रालिहः " इति खच् । “ खित्युरुः " इत्यादिना मम् । अभ्रंलिहान्यप्राणि येषां ते तथोक्ताः । सौधाभोगाः प्रासादसर्वदे“ आभोगः परिपूर्णता ” इत्यमरः । आकीर्ण प्राप्तम् । मन्द्रघोषं गम्भीरध्वनिम् । " मन्द्रस्तु गम्भीरे " इत्यमरः । विद्युद्धासा तडित्कान्त्या । विरचिततनुं विहितशरीरम् । अन्तस्तोयं अन्तर्गतं तोयं यस्य तम् । तुङ्गम् उन्नतम् | घनानाम् मेघानाम् । ओघं समू" स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः हम् । इत्यमरः । शश्वत् चिरम् । तुलयितुं समीकर्तुम् । अलं समर्था भवन्तीति शेषः । अत्र कर्तृकर्मणोः प्रतिपदं बिम्बप्रतिबिम्बभावेन साम्यं लक्ष्यते ॥ ८७॥
""
कूटोच्छ्रायैस्तुहिनविशदैः शारदानम्बुदौघान्
मन्द्रातोद्यध्वनिभिसदधीनुच्चलद्वारिवेलान् ।
रत्नोदंशुप्रसररुचिरैर्भित्तिभागैः कुलाद्रीन्
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ८८ ॥ १॥ ४ ॥
कूटोच्छ्रायैरिति । यत्र धनदनगर्याम् । प्रासादाः सौधा: । तुहिनविशदै: तुहिनं हिमभिव विशदै: निर्मलैः । कूटोच्छ्रायैः शिखरोन्नतिभिः । शारदात् शरत्कालभवान् । अम्बुदौघान् मेघसमूहान् । मन्द्रातोद्यध्वनिभिः मन्त्रैर्गम्भीरैरातोद्यानां वाद्यानां ध्वनिभिः शब्दैः। उच्चलद्वारिवेलान् उच्चलत्कम्पमानं वारि यस्याः सा उच्चलद्वारिः सा वेला येषां तानीति पुनर्बहुव्रीहिः । बहुव्रीहेराश्रयलिङ्गत्वात्रिलिङ्गयां रूपं नीयते । उदधीन् समुद्रान् । रत्नोदंशुप्रसररुचिरैः रत्नानामुदंशूनामुद्गत किरणानां प्रसरेण प्रवाहेण रुचिरैर्मनोहरैः । भित्तिभागैः कुड्यपार्थैः । “भित्तिः स्त्री कुड्यमेडूकम् ” इत्यमरः । कुला