________________
पार्थाभ्युदयकाव्यं चितं निर्मितम् । इन्द्रायुधं सुरधनुर्यस्य तत् । “इन्द्रायुधं शक्रधनुः" इत्यमरः । सजलकणिकासारं जलानां कणिकाः जलकणिकाः जलबिन्दवः जलकणिकानामासारेण वेगवद्वर्षेण सहितं सजलकणिकासारम् । प्रावृषेण्यं प्रावृषि भवं प्रावृषेण्यं “प्रावृषे ण्यः" इति ण्यप्रत्ययः । अभ्रवृन्दं मेघजालम् । कामिनी प्रमदा । मुक्ताजालग्रथितं मुक्ताजालैः मौक्तिकजालकैः प्रथितं प्रत्युप्तम् । “ पुंश्चल्यां मौक्तिके मुक्ते” इति यादवः । “ग्रथितं ग्रन्थितं दृब्धम्" इत्यमरः । अलकमिव चूर्णकुन्तलमिव । जातावेकवचनम् । “अलकाचूर्णकुन्तलाः" इत्यमरः । धत्ते धरति । अत्र कालस्य अनुकूलनायकत्वमलकायाश्च खाधीनपतिकाख्यानायिकात्वं च ध्वन्यते ॥ ८४ ॥ यत्रानीलं हरिमणिमयाः क्षुद्रशैलानभोगं
प्रोद्यद्देवद्रुमपरिसरभूपधूमानुबन्धाः । प्रासादश्च प्रथयितुमलं सर्वदा मेघकालं
विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः ॥८५॥१॥१॥ यत्रेति ॥ यत्र पुर्याम् । हरिमणिमयाः इन्द्रनीलरत्नरूपाः । “यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिना कपिले त्रिषु ” इत्यमरः । क्षुद्रशैलाः क्रीडाद्रयः । प्रोद्यद्देवद्रुमपरिसरबूपधूमानुबन्धाः धूपस्य धूमः धूपधूमः परितः सरतीति परिसरन् देवदारुद्रुमात्परिसरन् क्तः देवदारुद्रुमपरिसरंश्चासौ धूपधूमश्च तथोक्तः प्रोद्यन प्रोद्गच्छंश्चासौ स चेति पुनः कर्मधारयः । तस्यानुबन्धः सम्बन्धो येषां ते तथोक्ताः । ललितवनिताः ललिता रम्या वनिताः स्त्रियो येषु ते । सचित्राः सहचित्रैर्वर्तन्ते सचित्राः । प्रासादाश्च हाश्च । आनीलम् आसमन्तानीलवर्णम् । नभोगम् आकाशगतम्। "गमः खड्डा” इति डत्यः। विद्युत्वन्तं क्षणरुचिमन्तम् । “स्तं मत्वर्थे" इति पदत्वाभावान्न जश्त्वम् । सेन्द्रं चापं सेन्द्रायुधम् । मेघकालं