________________
१५८
पार्श्वभ्युदयकाव्यं ब्दार्णवे । धनीशां धनिनामीशस्तेषां यक्षाणाम् । पुरी अलकाख्याम् । स्वेष्टकामः स्वेष्टाभिलाषी । तस्मादद्रेः कैलासपर्वतात् । अवतर उपगच्छ ॥ ८१ ॥ दृष्टाध्यात्मस्थितिरधिगताशेषवेद्यः सविद्यो
योगाभ्यासाद्भुवनमखिलं सञ्चरन्दूरदर्शी । लक्ष्म्याः सूर्ति भुवनविदितां तां पुरी तत्र साक्षा
न्न त्वं दृष्ट्वा न पुनरलकां शास्यसे कामचारिन् ॥ ८२॥ . दृष्ट्वेति ॥ कामचारिन् भो यथेष्टविहारिन् । त्वं भवान् । योगाभ्यासात् ध्यानपरिचयात् । दृष्टाध्यात्मस्थितिः आत्मन्यधिकृत्यवर्तमानमध्यात्मं दृष्टा अध्यात्मस्थितिर्येन सः । आत्मस्वरूपं दृष्टवानित्यर्थः । अधिगताशेषवेद्यः ज्ञाताखिलपदार्थः । सविद्यः विद्याभिः सहितः । दूरदर्शी विद्वान् । “ दूरदर्शी दीर्घदर्शी" इत्यमरः । अखिलं निखिलम् । भुवनं जगत् । सञ्चरन् विहरन् । लक्ष्म्याः सम्पत्तेः । सूतिम् उत्पत्तिगृहम् । भुवनविदितां लोकप्रथिताम् । ता'मलकाम् अलकाभिधां पुरी पुरम् । दृष्ट्वा वीक्ष्य । पुनः पश्चात् । तत्र पुर्याम् । साक्षात् प्रत्यक्षेण । नत्वं ज्ञास्यसि न वेत्स्यसि इति न किन्तु ज्ञास्यस्येवेत्यर्थः । कामचारिणस्ते पूर्वमपि बहुकृत्वो दर्शनसम्भवात् अज्ञानमसंभावितमेवेति निश्चयार्थ नद्वयप्रयोगः । तदुक्तम् । निश्चयसिद्धार्थेषु नद्वयप्रयोग इति ॥ ८२ ॥ निर्वाणार्थं तितपसिषवोऽमी स्वयं क्लेशयन्ति
व्यर्थोद्योगा मयि तु वितृषः किन्नुमत्तोऽधिकं तत् । इत्याकूताद्विहसितमिवाम्भोमुचामिन्दुशुभ्रं ___ या वः काले वहति सलिलोद्गारमुच्चैर्विमाना ॥ ८३ ॥ निर्वाणार्थमिति ॥ अमी इमे योगिनः । निर्वाणार्थ मोक्षार्थम् ।