________________
सटीकम् ।
१५७
क्रीडापर्वतानाम् । कनकशिखराणि स्वर्णकूटानि " वसोनूपाध्याङ: " इत्याधारे द्वितीया । आवसन् आस्थितवान् । स्वर्गस्त्रीणां देवस्त्रीणाम् । निधुवनलता गेहसम्भोगदेशान् सुरतलताभावनसम्भोगप्रदेशान् । पश्यन् ईक्षमाणः । कल्पद्रुमकिसलयानि कल्पद्रुमाणां किसलयानि पल्लवभूतानि " पल्लवोऽस्त्री किसलयम् ” इत्यमरः । अंशुकानि " सूक्ष्मवस्त्राणि । " अंशुकं वस्त्रमात्रे स्यात्परिधानोत्तरीययोः । सूत्रे वस्त्रे सानुदीप्तौ ” इति शब्दार्णवे । नानाचेष्टैः नामा विविधाश्चेष्टा येषु तैः । ललितैः क्रीडितैः । " नाभावभेदे स्त्रीनृत्ये ललितं त्रिषु सुन्दरे । अस्त्रियां प्रमदारामे क्रीडिते जातपलवे " इति शब्दार्णवे । स्ववातैः निजवायुभिः । धुन्वन्कम्पयन् । तं नगेन्द्रं तं कैलासम् । निविशेः उपभुंक्ष्व । " निर्विशो भृतिभोगयोः " इति विश्वः । मेघपर्वतरब्धिचन्द्रयोः शिखिजीमूतयोर्दृष्टिरम्ययोः । स्वयंदर्शनान्मित्रता भवेदिति भावः ॥ ८० ॥ इतःपादवेष्टितानि— विद्युद्दाम्ना बलयिततनुस्तत्र बध्येव रुद्धो
।
I ।
दीर्घ स्थित्वा सरति पवने मन्दमन्दं दिनान्ते । तस्मादद्रेरवतर पुरीं स्वेष्टकामो धनीशां
तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलाम् ॥ ८१ ॥ विद्युदिति ॥ तत्र कैलासे । बध्या नध्या "बधी नधी वरत्रा स्यात्” इत्यमरः । रुद्ध इव आवृतवत् । विद्युद्दाम्ना तडिन्मालया । वलयित - तनुः आवेष्टितशरीरः । दीर्घ चिरम् । स्थित्वा विश्रामं कृत्वा । दिनान्ते सायाह्ने । पवने वायौ । मन्दमन्दं शनैः शनैः । वीप्सायां द्विः । सरति वाति सति । प्रणयिन इव प्रियतमस्येव । तस्य कैलासस्य । उत्सङ्गे ऊर्द्धतटे । “उत्सङ्गो मुक्तसंयोगे सक्थिन्यूर्ध्वतटेपि च" इति मालायाम् । स्रस्तगङ्गादुकूलां विश्लिष्टं गङ्गा एवं दुकूलं शुभ्रवस्त्रं यस्यास्ताम् । “ दुकूलं सूक्ष्मवस्त्रे स्यादुत्तरीये सितांशुके " इति श