________________
पार्धाभ्युदयकाव्यं कृच्छ्रान्मुक्तो विविधकरणैस्तत्र रत्वाऽथ ताभि
भूयः शैले विहर गमितो वायुनाप्तवणाङ्गम् । हेमाम्भोजप्रसवि सलिलं मानसस्याददानः
कुर्वन्कामं क्षणमुखपटप्रीतिमैरावणस्य ॥ ७९ ॥ कृच्छ्रादिति ॥ अथ अनन्तरे । तत्र शैले। ताभिः देवनारीभिः । विविधकरणैः विविधेन्द्रियैः । नानाक्रीडासाधनैर्वा । “ करणं साधकतमक्षेत्रमात्रेन्द्रियेष्वपि ” इत्यमरः । रत्वा क्रीडित्वा । कृच्छ्रात् कष्टात् । मुक्तः त्यक्तः । “ ङसिभ्यांभ्यस्तोकाल्पकतिपयकृच्छ्रादसत्त्वे ” इति पञ्चमी । भूयः पुनः । वायुना वातेन । आप्तवणाङ्गं प्राप्तव्रणावयवम् । “ अङ्ग प्रतीकोऽवयवोपघनः " इत्यमरः । गमितः । मानसस्य मानससरोवरस्य । हेमाम्भोजप्रसवि हेमाम्भोजानां प्रसवि प्रसवनमस्यास्तीति प्रसवि “स्यादुत्पादे फले पुष्पप्रसवे गर्भमोचने” इत्यमरः । सलिलं जलम् । आददानः स्वीकुर्वाणः । पिबनित्यर्थः । ऐरावणस्य इन्द्रगजस्य । “ ऐरावतोऽभ्रमातङ्गैरावणाऽभ्रमुवल्लभाः ” इत्यमरः । क्षणमुखपटप्रीतिं क्षणे मानसजलादानकाले मुखपटेन या प्रीतिस्ताम् । कुर्वन् वितन्वन् । जिनेन्द्रपूजार्थमागतशक्रस्य गजेन्द्रमुखाग्रभागेपि क्षणं तिष्ठनित्यर्थः । कामं यथेच्छया । " कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम्" इत्यमरः।शैले कैलासनगे । विहर सञ्चर ॥ ७९ ॥ क्रीडाद्रीणां कनकशिखराण्यावसंस्तत्र पश्यन्
स्वर्गस्त्रीणां निधुवनलतागेहसम्भोगदेशान् । धुन्वन्कल्पद्रुमकिसलयान्यंशुकानि खवातै
र्नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥ ८०॥६४ ॥ क्रीडाद्रीणामिति ॥ जलद भो मेघ । तत्र कैलासे । क्रीडाद्रीणां