________________
. सटीकम् ।
अन्तस्तोय इति ॥ अन्तस्तोयोच्चलनसुभगाम् अन्तर्जलस्योद्गमनेन सुन्दराम् । भाविनी भवित्रीम् । तामवस्थां प्राक्कुदृष्टिस्वरूपाम् । मन्वानाः मन्वते इति मन्वानाः जानन्त्यः । ताः सुरयुवतयः त्रिदिववनिताः । तत्र कैलासे । सानुदेशे तटप्रदेशे । सुनिभृततरं सुनिश्चलतरम् । निषण्णम् उपविष्टम् । वलयकुलिशोद्बट्टनोद्गीर्णतोय वलयकुलिशानि कङ्कटकोटयः शतकोटिवाचिना कुलिशशब्देन कोटिमात्रं लक्ष्यते । तैरुद्धटनानि प्रहारास्तैरुदीर्णमुत्सृष्टं तोयं येन तम् । त्वां भवन्तम् । यत्रधारागृहत्वम् कृत्रिमधारागृहत्वम् । अवश्यं नूनम् । नेष्यन्ति प्रापयिष्यन्ति ॥ ७७ ॥
आकर्षन्त्यो दृतिमिव सरस्तोयपूर्णामधस्तात्
क्रीडिष्यन्ति त्रिदशवनितास्त्वामितश्चामुतश्च । ताभ्यो मोक्षो यदि तव सखे धर्मलब्धस्य न स्या
क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्मीषयेस्ताः ॥ ७८ ॥ ६३ ॥
. आकर्षन्त्य इति ॥ सरस्तोयपूर्णा कासाराम्भःसम्पूर्णाम् । दृतिमिव चर्मपात्रमिव । “ दृतिश्चर्मघटे रुषे” इति विश्वः । अधस्तात् अधोभागे । इतवामुतश्च अस्माच्चामुष्माच्च । त्वां भवन्तम् । आकर्षन्त्यः नयन्त्यः । त्रिदशवनिताः त्रिदिवरमण्यः । क्रीडिष्यन्ति क्रीडां करिष्यन्ति । “क्रीड" विहरणे । लट् । सखे भो मित्र । धर्मलब्धस्य धर्मे निदाघे " धर्मो निदाघः स्वेदः स्यात् ” इत्यमरः । लब्धस्य प्राप्तस्य । तव भवतः । ताभ्यःसुरयुवतिभ्यः । मोक्षः विमोचनम्। यदि न स्यात् न भवेच्चेत् । तदा । क्रीडालोलाः क्रीडासक्ताः प्रमत्ता इत्यर्थः । ताः सुरयुवतीः । श्रवणपरुषैः श्रवणानां कर्णानां परुषैः निष्ठुरैः । “ निष्ठुरं परुषम् ” इत्यमरः । गर्जितैः स्तनितैः। भीषयेः। "बिभीतेभिश्च" इति भीषादेशः । तर्जयेत्यर्थः ॥ ७८ ॥