SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५२ पार्श्वाभ्युदयकाव्यं सद्यः कृत्तद्विरदरदनच्छेदगौरस्य तस्य प्रालेयांशोग्रसितुमनसा राहुणेवाश्रितस्य ॥ ७३ ॥ : उत्पश्यामीति ॥ स्निग्धभिन्नाञ्जनाभे स्निग्धं मसृणं भिन्नं मर्दितं च यदञ्जनं तस्य आभेव आभा यस्य तस्मिन् । त्वयि भवति । तटगते सानुगते सति । वटतरुमतः वटवृक्षवतः । मण्डलभ्राजितस्य बिम्बेन वृत्तेन राजितस्य । " बिम्बोऽस्त्री मण्डलं त्रिषु "" इत्यमरः । सद्यः तत्क्षणे । कृत्तद्विरदरदनच्छेदगौरस्य कृत्तस्य छिन्नस्य द्विरदरदनस्य गजदन्तस्य छेदवत् भागवत् गौरस्य शुभ्रस्य । (6 अवदातः सितो गौरोवलक्षो धवलोऽर्जुनः " इत्यमरः । इदं विशेषणत्रयमुभयत्राप्यन्वीयते । ग्रसितुमनसा ग्रसितुं मनो यस्य तेन । राहुणा स्वर्भानुना । आश्रितस्य संयुक्तस्य । प्रालेयांशोरिव चन्द्रस्येव । तस्याद्रेः कैलासस्य । शोभां द्युतिम् । उत्पश्यामि उत्प्रेक्षे । शोभा भविष्यतीति तर्कयामीत्यर्थः ॥ ७३ ॥ त्वय्यारूढे शिखरमभितोऽधित्यकां तस्य मन्ये पार्श्वग्रे वा पुनरपि दशास्यावतारप्रपञ्चम् । लीलामद्वेस्तिमितनयनप्रेक्षणीयां भवित्री मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ७४ ॥ ६१ ॥ त्वयीति ॥ तस्य कैलासस्य शिखरमभितः शिखरस्य सर्वतः । " हाधिक्समया " इत्यादिना द्वितीया । अधित्यकाम् ऊर्द्धभूमिम् । “ उपत्यकाद्रेरासन्ना भूमिरूर्द्धमधित्यका ” इत्यमरः । त्वयि भवति । आरूढे निविष्ठे सति । पुनरपि प्रागिव पश्चादपि । दशास्यावतारप्रपभ्वं दशास्यस्य रावणस्य अवतारस्य प्रपञ्चं विस्तारम् । " विपर्यासे विस्तरे च प्रपञ्चः " इत्यमरः । मन्ये जाने । पार्श्वा वा पार्श्व परिभागे वा । वाशब्दः पक्षान्तरे । " उपमायां विकल्पे वा "" इत्यम१ तुं काममनसोरपीति, तुमनो मकारलोपः ।
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy