________________
सटीकम् ।
१५३
रः । त्वयि तदधित्यकायामारूढे सतीति पुनरन्वयः । मेचके
श्यामले | 66
""
कालश्यामलमेचकाः
""
इत्यमरः । वाससि वस्त्रे । वस्त्रमाच्छादनं वासः इत्यमरः । हलभृतः बलभद्रस्य । मुसली हली ” इत्यमरः । अंसन्यस्ते अंसे भुजशिरसि । न्यस्यते स्म तथोक्तं तस्मिन् । “ स्कन्धो भुजशिरोंसोऽस्त्री " इत्यमरः । सति अस्तीति सन् तस्मिन् सति । इव यद्वत् तद्वत् । अद्रेः कैलासस्य । भवित्री भाविनीम् । स्तिमितनयनप्रेक्षणीयां स्तिमिताभ्यां निर्निमिषाभ्यां नयनाभ्यां प्रेक्षणीयां दर्शनीयाम् अतिप्रकृष्टामित्यर्थः । लीलां शोभामिति वा पाठः । मन्ये जानामि । " बुद्धिमति ” ज्ञाने । त्वयि अग्रभागस्थे बलभद्रभुजशिरः स्थितश्यामवस्त्रेणोत्प्रेक्ष्यते इत्यर्थः ॥ ७४ ॥
अनन्तरितार्थवेष्टितम् -
८८
तस्मिन्हित्वा भुजगवलयं शम्भुना दत्तहस्ता सम्प्राप्योच्चैर्विरचित इवानीलरत्नैस्त्वयीयम् । क्रीडाशैले यदि च विहरेत्पादचारेण गौरी
मास्म स्फूर्जः सितिफणिभयान्मास्म संक्लेदिनीभूत् ७५ तस्मिन्निति । तस्मिन् कैलासे । भुजगवलयं भुजग एव वलयं तत् । “ कटकं वलयोऽस्त्रियाम् " इत्यमरः । हित्वा मुक्त्वा । शम्भुना ईशानदिगीशेन । दत्तहस्ता दत्तो हस्तो यस्याः सा वितीर्णकरा - वलम्बा । इयं गौरी पार्वती । संप्राप्य समागत्य । आनीलरत्नैः इन्द्रनीलमणिभिः । विरचिते कल्पिते । उच्चैः महति । क्रीडाशैल इव क्रीडाद्राविव । त्वयि भवति । पादचारेण चरणगमनेन यानादि हित्वेत्यर्थः । यदि च विहरेत् सञ्चरेत्तर्हि । मास्म स्फूर्जः मास्म गर्जः । " टुओस्फूर्जा " वज्रनिर्घोषे । लङ् । सितिफणिभयात् सितिश्चासौ फणिश्च सितिफणिः कालोरगः । सिती धवलमेचकौ ” इत्यमरः । स इति भयात् भीतेः । संक्लेदिनी मनः खेदवती । मास्म भूत् न भव
66