________________
सटीकम् ।
१५१
स्य स्वर्गस्य वनितानां दर्पणम् आदर्श तस्य । स्वस्सीमन्तिनीनां संमुखीनीनोपमस्य राजतत्वाद्विम्बग्राहित्वाद्वेदमुक्तम् । कैलासस्य अष्टापदगिरेः । अतिथिः पूज्यः । " अतिथिर्ना गृहागते " इत्यमरः । स्याः भव । कैलासाचलस्य प्रान्तं व्रजति तात्पर्यम् ॥ ७१ ॥
क्षीरादच्छच्छविभिरभितः प्रोच्चलन्निर्झरौघैः शृङ्गोच्छ्रायैः कुमुदविशदैयों वितत्य स्थितः खम् । नृत्तारम्भे प्रतिकृतिगतस्यादिभर्तुः पुरस्ता
द्राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥ ७२ ॥ ६० ॥
क्षीरादिति । यः कैलासाचलः । क्षीरात्पयसोपि । अच्छच्छविभि: निर्मलकान्तिभिः । " त्रिष्वागाधात्प्रसन्नोच्छः " इत्यमरः । अभितः परितः । प्रोञ्चलन्निर्झरौघैः प्रोश्चलतामुद्गच्छतां निर्झराणां प्रवाहाणामोघैः समूहैः । कुमुदविशदैः कुमुद्वद्विशदै: । “ सिते कुमुदकैरवे । विशदश्येतपाण्डराः" इत्यमरः । शृङ्गोच्छ्रायैः शिखराणामुन्नतिभिः । “ नगाद्यारोह उच्छ्राय उत्सेधश्वोच्छ्रयश्च सः " इत्यमरः । खम् आकाशम् । “ सुरवर्त्म खम् " इत्यमरः । वितत्य व्याप्य । प्रतिकृतिगतस्य । प्रतिमात्मकस्य । “प्रतिकृतिरच पुंसि प्रतिनिधिः" इत्यमरः । आदिभर्तुः आदिजिनेश्वरस्य । पुरस्तात् अग्रतः । त्र्यम्बकस्य ईशानदिक्पतेः । नृत्तारम्भे आनन्दनर्तनप्रारम्भे । " लास्यं नृत्तं च नर्तने " इत्यमरः । अट्टहासः हासभेदः । अट्टोऽतिशयभूमौ " इति यादवः । " अट्टहासो महत्तरे " इति विदग्धचूडामणौ । हासादीनां धावल्यं कविसमयसिद्धम् प्रतिदिनं दिनं प्रति । राशीभूत इव पुञ्जीभूत इव । स्थितः तिष्ठति स्म ॥ ७२ ॥
66
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे शोभामद्रेर्वटतरुमतो मण्डलभ्राजितस्य ।