________________
१४८
पार्धाभ्युदयकाव्यं पाटलिपुत्रे स्याद्गृहोपरिगृहे पुरम् । “पुरं पुरे शरीरे च गुग्गुले कथितः पुरः। पुराव्ययं पूर्वकाले” इति विश्वः। तस्य विजयोऽभिषवः गीयते स्तूयते । एकान्तरितार्धवेष्टितमिदम् ॥ ६७ ॥ वेणुष्वेषु स्फुटमिति तदा मन्द्रतारं ध्वनत्सु
प्रोद्गायन्तीष्वतिकलकलं तजयं किन्नरीषु । निर्हादी ते मुरव इव चेत्कन्दरीषु ध्वनिः स्यात्
सङ्गीतार्थो ननु पशुपतेस्तत्रभावी समस्तः ॥ ६८ ॥ ५८ ॥ वेणुष्विति ॥ तदा तत्समये । एषु वेणुषु । तेषु वंशेषु । “ शतपर्वा यवफलो वेणुमस्करतेजनाः ” इत्यमरः । स्फुटं व्यक्तम् ।मन्द्रतारं गम्भीरोच्चैः स्वरद्वयं यथा तथा । “मन्द्रस्तु गम्भीरे तारोत्युच्चैः" इत्युभयत्राप्यमरः । इति उक्तप्रकारेण । ध्वनत्सु कूजत्सु सत्सु । किन्नरीषु किन्नरस्त्रीषु । तज्जयं त्रिपुरजयम् । अतिकलकलं प्रकृष्टकलकलध्वनिर्यथा तथा । प्रोद्गायन्तीषु गायनं कुर्वन्तीषु सतीषु । कन्दरीषु दरीषु । “ दरी तु कन्दरो वा खी" इत्यमरः । ते तव ध्वनिः शब्दः । निर्हादी ध्वनिमान् । “खाननिर्घोषनिदिनादनिखाननिखनाः" इत्यमरः । मुरव इव मुरजवत् । स्याचेत् यदि भवेत्तर्हि । तत्र तच्चरणसमीपे । पशुपतेः पशून् मन्दबुद्धीन पाति रक्षति इति पशुपतिः । तस्य हितोपदेष्टुः जिनेश्वरस्येत्यर्थः । कथमहतः पशुपतिनामेति नाशङ्कनीयम् । “ सर्वज्ञः सुगतो जिनः पशुपतिः” इति बहुलमुपलम्भात् । समस्तः सकलः । सङ्गीतार्थः सङ्गीतवस्तु । " अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु" इत्यमरः । ननु निश्चयेन । भावि भविष्यन् । गम्यादिवत्स्यतीति साधुः । इदमनन्तरितार्धवेष्टितं ॥ ६८॥ . १ मारुतरंध्रपूर्णवेणुबोधककीचकपदेनैव विशेषणजन्यार्थलाभे विशेषणस्य वैयर्थ्यमिति नैयायिका विशिष्टवाचकानां पदानां सति पृथग्विशेषणे विशेष्यमात्रपर. खमिति न्यायादिति वदंति। निर्हादस्ते इत्यपि पाठः । २ मुरज इवेयपि पाठः ।