SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सटीकम् । १४९ प्रालेयाद्रेरुपतटमतिक्रम्यतांस्तान्विशेषान् तस्यादूरे कुकविकविताकल्पितं तत्प्रतीयाः । हंसद्वारं भृगुपतियशोवर्त्म यत्रौञ्चरन्धं दण्डेनाविष्कृतमिव गुहद्वारकं वैजयार्थम् ॥ ६९ ॥ । प्रालेयाद्रेरिति ॥ प्रालेयाद्रेः हिमवद्भिरेः । उपतटं तटसमीपे । .66 शब्दप्रथा " इत्यव्ययीभावः । तांस्तान् प्रदेशान् । " वीप्सायाम्" इति द्विरुक्तिः । विशेषान् प्रष्टव्यार्थान् । " विशोषोऽवयवे द्रव्ये प्रष्टव्योत्तमवस्तुनि " इति शब्दार्णवे । अतिक्रम्य दर्शदर्श गत्वा । तस्य हिमाद्रेः । अदूरे समीपे । यत् भृगुपतियशोवर्त्म भृगुपतेः जामदृद्भ्यस्य यशसः कीर्तेः वर्त्म प्रवृत्तिकारणमित्यर्थः । हंसद्वारं हंसानां द्वारं मानसप्रस्थायिनो हंसाः क्रौञ्चरन्ध्रेण सञ्चरन्तीति तदागमः । कौश्वरंधं क्रौञ्च स्याद्रेः रन्ध्रं विवरं तत् कुकविकविताकल्पितम् कुत्सितकवित्वरचितं लौकिकजनैः कल्पितमित्यर्थः । दण्डेन चक्रपतिकरस्थरत्नेन । आविष्कृतं प्रादुष्कृतं उद्घाटितमित्यर्थः । वैजयार्थ चक्रिणां विजयस्य अर्थः विजयार्थः रजताद्रेः विजयस्यार्थस्येदं वैजयार्थम् । गुहाद्वारकमिव द्वारमेव द्वारकं गुहायाः द्वारकं कन्दरद्वारमिव । प्रतीयाः प्रतिविशेः । अत्र क्रौञ्चरन्ध्रमिति कचिद्गुहाविवरस्य विजयार्थगुहोपमया महत्त्वं लक्ष्यते ॥ ६९ ॥ 1 एकान्तरितार्ध वेष्टितानीतः - बह्वाश्चर्ये हिमवति कृतालोकनत्वादसङ्गस्तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी कृष्णः सर्पो गुरुरिव गिरेर्गह्वरान्निष्पताशु श्यामः पादो बलिनियमनेऽभ्युद्यतस्येव विष्णोः ॥७०॥५९॥ बीति ॥ बह्राश्वर्ये बहु आश्चर्य यस्मिन् तस्मिन् । हिमवति हि -
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy