________________
- सटीकम् । ..
१४७ प्राप्तये स्थिरं शाश्वतं यद्गणानां द्वादशानां पदं स्थानं समवसरणं तस्य प्राप्तये लब्धये । अत्र गणपदस्य स्थिरत्वविशेषणं तत्रस्थजीवानां क्षुधादिदोषाभावात्परमस्वास्थ्यं सूचयति । दूरतः दविष्ठदेशात् । वै स्फुटम् । कल्पिष्यन्ते समर्था भविष्यन्ति । "क्लपोर्डि सामर्थे”। कर्मणि लट् । तच्चरणन्यासश्रद्धाभावे मिथ्यादृष्टित्वं स्यात् समवसरणं प्राप्तुं समर्था न भवन्तीति तात्पर्यम् । इदं व्यन्तरितार्धवे. ष्टितं ॥६६॥
- तस्योपान्ते रिरचयिषवो नूनमातोद्यगोष्ठी
शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः । तत्रासेवां वितितनुषुभिर्लोकभर्तुर्जिनस्य संरक्ताभिस्त्रिपुरविजयो गीयते किन्नरीभिः ॥ ६७ ॥
तस्येति ॥ तस्य चरणन्यासस्य । उपान्ते समीपे । आतोद्यगोष्ठी वादित्रगोष्ठीम् । " चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ” इत्यमरः । नूनं निश्चयेन । रिरचयिषवः रचितुमिच्छवः । अनिलैः वायुभिः । पूर्यमाणा ध्यायमानाः । कीचकाः वेणुविशेषाः । “ वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ” इत्यमरः । मधुरं मनोहरं यथा तथा । शब्दायन्ते शब्दं कुर्वन्ति स्वनन्तीत्यर्थः । “शब्दादि कृङि वा” इति क्यङ्। अनेन वंशवाद्यसम्पत्तिरुक्ता । तत्र पवित्रस्थाने । लोकभर्तुः त्रिलोकस्वामिनः । जिनस्य अर्हतः । आसेवाम् आराधनाम् । वितितनुषुभिः वितनितुमिच्छभिः विस्तरितुमिच्छभिरित्यर्थः । संरक्ताभिः रक्तकण्ठीभिरिति वा संसक्ताभिरिति वा पाठः । वाद्यानुरक्ताभिः किन्नरीभिः किन्नरस्त्रीभिः। त्रिपुरविजयः त्रयाणां पुराणाम् औदारिकतैजसकामशरीराणां समाहारः त्रिपुरम् । “दिगधिकसञ्ज्ञातद्धितोत्तरपद-" इत्यादिना समाहारसमासः । “ पुरं