________________
१४६
पार्वाभ्युदयकाव्यं अर्धेन्दुमौलेः इंदोर अर्धेदुः समेधमिति तत्पुरुषसमासे सूकृत्वात्पूर्वनिपातः मौलिरिव मौलिः अर्धेदोमौलिस्तस्य । " चूडाकिरीटके शाश्च संयता मौलयस्त्रयः "। इत्यमरः । उपहृतबलिम् उपहृतः कृतः बलिः यस्मै तथोक्तस्तम् । अय॑म् आर्चतुं योग्यस्तं पूजनीयम् । व्यक्तं व्यज्यते स्म व्यक्तस्तं निवृत्तम् । चरणन्यासं न्यसनं न्यासः चरणयोासस्तम् । " पदङ्गिश्चरणोऽस्त्रियाम् ” इत्यमरः । पादन्यासप्रतिबिम्बमित्यर्थः । भक्तिनम्रः भक्त्या नमनशीलः सन् । " नम्कम्यजस्कंपीति रः” । परीयाः प्रदक्षिणीकुरु। “परिपूर्वादिणगतौ " इति धातोर्लिङ् । तदाहि पापापाये कर्मनिवारणे । भक्तिरेव गुणानुराग एव । प्रथमं मुख्यम् । कारणं निदानम् । उदितं भाषितम् । " उक्तं भाषितमुदितम्" इत्यमरः । एकांतरितार्धवेष्टितमिदं ॥ ६५ ॥ यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्भूतपापाः
सिद्धक्षेत्रं विदधति पदं भक्तिभाजस्तमेनम् । दृष्ट्वा पूतस्तमपि भवताद्वै पुनर्दूरतोऽमुं
कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ६६ ॥ ५७ ।। यस्मिन्निति ॥ यस्मिन् चरणन्यासे । दृष्टे प्रेक्षिते सति । भक्तिभाजः भाक्तिकजनाः । उद्धृतपापाः निर्मूलितपापाः सन्तः । करणविगमात् करणस्य गात्रस्य विगमात् त्यागात् । ऊर्द्धम् अनन्तरम् । " करणं साधकतमक्षेत्रगानेन्द्रियेष्वपि ” इत्यमरः । सिद्धक्षेत्रं मुक्तिस्थानम् । विदधति कुवन्ति । त्वमपि भवानपि । तमेनं पदं तदेव चरणम् न्यासम् । दृष्ट्वा अवलोक्य । पूतः पवित्रः । “ पूर्त पवित्रं मेध्यं च " इत्यमरः । भवतात् भव । पुनः पश्चात् । अमुं चरणन्यासम् । अश्रद्धधानाः अविश्वसन्तः पुरुषाः । स्थिरगणपद१ संकल्पन्ते इत्यपि पाठः ।