SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सटीकम् । १४५ भवाः । अपधियः अपगता धीर्बुद्धिर्येषां ते तथोक्ताः । स्वांगभंगैकनिष्ठाः स्वांगानां भंगेन मर्दनेन एकेन निष्ठाः उद्युक्ताः । “निष्ठा निष्पत्तिनाशांताः " इत्यमरः । एते शरभाः । स्तनितरभसात् त्वद्गार्जितवेगात् । “रभसो वेगहर्षयोः" इत्यमरः । भवंतं त्वां । भृशं अत्यर्थ । उत्पतेयुः लंघयेयुः । तान् शरभान् । तुमुलकरकावृष्टिपातावकीर्णान तुमुलाः करका वर्षांपलास्तासां वृष्टिस्तस्याः पातेन अवकीर्णान् अधः क्षिप्तान् कुर्वीथाः कुरुष्व। विध्यर्थे लिङ्। क्षुद्रोप्यधिक्षिपन् विपक्षस्सदयः प्रक्षिप्तव्य इति भावः । तथाहि निष्फलारंभयत्नाः आरभ्यंत इत्यारंभाः कर्माणि तेषु उद्योगः स निष्फलो येषां ते तथोक्ताः विफलकार्योपक्रमा इत्यर्थः । केषां पुंसां ।परिभवपदं तिरस्कारास्पदं । न स्युः न भवेयुः। भवेयुरित्यर्थः । “घनोधनस्तु करकः” इति यादववचनात् करकशब्दस्य नियतपुल्लिंगाभिप्राये करकाणामवृष्टिरिति केषांचिन्मतं । तदन्येनाप्यनुमन्यते “वर्षोपलस्तु करका” इत्यमरः । तब्याख्याने "कमंडलौ च करकः” इति नानार्थे पुंस्यपि वचनात् पुल्लिंगताविधाने तात्पर्य न तु स्त्रीलिंगतां निषेधयति । न तद्विरोधः । "करकस्तु करंडे स्यादाक्रोशे च कमंडलौ। पक्षिभेदे करे चास्ति करका च घनोपले " इति विश्वप्रकाशवचनेन तूभयलिंगता प्युक्कैवेति न विरोधः ॥ ६४॥ तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौले रय॑ भर्तुस्त्रिभुवनगुरोरर्हतः सत्सपर्यैः । शश्वत्सिद्घरुपहृतबलिं भक्तिनम्रः परीयाः पापापाये प्रथममुदितं कारणं भक्तिरेव ॥६५॥ तत्रेति॥ तत्र हिमवति । दृषदि शिलायां। “शिला दृषद्” इत्यमरः । त्रिभुवनगुरोः त्रिभुवनानां गुरुहितोपदेशकस्तस्य भर्तुः स्वामिनः । १ रुपचितवलिमित्यपि पाठः ।
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy