________________
१४२
पार्श्वभ्युदयकाव्यं अध्वक्षाममिति ॥ वायौ पवने । सरति सरतीति सरन् तस्मिन् सति वाति सति । अतिवर्षन् अतिवृष्टिं कुर्वन् । त्वं नोपेयाश्चेत् नगच्छेर्यदि तर्हि । अथवा नातिवर्षम् इत्यलुक्समासः । ईषद्वर्षन्नित्यर्थः। उपेयाश्चेत् यदि यायास्तार्ह । अतिवर्षस्याग्निप्रतिबन्धकत्वादिति भावः । सरलस्कन्धसङ्घट्टजन्मा सरलानां देवदारुविशेषाणाम् स्कन्धाः प्रदेशविशेषाः “अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः" इत्यमरः । तेषां सङ्घट्टनेन सङ्घर्षणेन जन्म यस्य स तथोक्तः । जन्मोत्तरत्वाद्र्यधिकरणोपि बहुव्रीहिः साधुरित्युक्तम् । असौ वह्निः दावानलः । वनविटपिजैः कान्तारतरुप्रभवैः । “ विटपी फलिनो नगः" इति धनञ्जयः । सान्द्रैः निरन्तरैः । “घनं निरन्तरं सान्द्रम्" इत्यमरः । धूमैः धूमपटलैः । अध्वक्षामं मार्गायासकृशीभूतम् । शैलमार्गाधिरोहात् गिरिपथारोहणात् । शिथिलिततनुं श्लथितशरीरम् । त्वां भवंतम् । औल्लङ्घये उल्लंघस्य भावः औल्लंघ्यं तस्मिन् उच्चलनीयत्वे । घटयितुं रचयितुम् । शक्नुयादव समर्थो भवेदेव । मेघस्य धूमयोनित्वाद्भूमेन पुष्टिं विध्यादित्यर्थः ॥ ६० ॥ आशृङ्गाग्रं कवचितमिवारूढमूर्ति हिमान्या
त्वत्सान्निध्यादुपहितरसैश्चौषधीनां सहस्रैः। आकीर्णान्तं सरसगहनं शैलराजं न चैनं
बाधेतोल्काक्षपितचमरीबालभारो दवामिः ॥ ६१ ॥ आशृङ्गाग्रमिति ॥ हिमान्या हिमसंहत्या । आशृङ्गाग्रम् आशुङ्गादाशृङ्गाग्रम् । कवचितमिव कञ्चुकितमिव । आरूढमूर्तिम् आसमन्ताद्व्याप्तदेहम् । त्वत्सान्निध्यात् तव सामीप्यात् । उपहितरसैः
१ संघट्टिनो जन्मेति पंचम्यंतपूर्वपदत्वं विग्रहे युक्ते 'अवयॊ व्यधिकरणो बहुव्रीहिर्जन्मायुत्तरपदः' इति वामनः। २ आगूढमूर्तिमिति पाठे संमतश्छ नदेहमित्यर्थः।