SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ सटीकम् । १४३ उपधृतार्दीभावैः । ओषधीनां फलपाकान्तद्रुमादीनाम् । सहस्रैरनेकैः। आकीर्णान्तं व्याप्तपर्यन्तम् । सरसगहनं सरसं रसयुतं गहनं वनं यस्य तम् । “ गहनं काननं वनम् ” इत्यमरः । एनं शैलराजम् एतं हिमवन्तम् । उल्काक्षपितचमरीबालभारः उल्काभिः स्फुलिङ्गैः क्षपिताः निर्दग्धाः चमरीणां मृगाणां बालभाराः केशसमूहाः येन स तथोक्तः । “ कुन्तलो बालः कचः केशः । ” इत्यमरः । दवाग्निः दव इत्यग्निः दवाग्निः वनवह्निः । “ वने च वनवह्नौ च दवो दाव इवेप्यते” इति शाश्वतः । न च बाधेत न पीडयेत् ॥ ६१ ॥ त्वत्तो निर्यन्स यदि सहसा विद्युतो जातवेदाः प्रालेयाद्रिं सतुहिनवनं निर्दिधक्षेत्तदा स्वैः । अर्हस्येनं शमयितुमलं वारिधारासहस्रै रापन्नार्तिप्रशमनफलाः सम्पदो ह्युत्तमानाम् ॥ ६२॥५५॥ त्वत्त इति ॥ त्वत्तः त्वत्सकाशात् । सहसा शीघ्रण । निर्यन निर्गच्छन् । सः प्रसिद्धः । विद्युतः तडितः । जातवेदाः अग्निः । " जातवेदास्तनूनपात्" इत्यमरः । मेघज्योतिरित्यर्थः । सतुहिनवनं सतुहिनं हिमसहितं वनं यस्य तम् । प्रालेयाद्रिं हिमवन्नगम् । यदि निर्दिधक्षेत् निर्दग्धुमिच्छेच्चेत् । “दह भस्मीकरणे” इति धातोः सन्नन्ताल्लङ् । तदा तत्समये । स्वैः स्वकीयैः।वारिधारासहस्रैः वारिधाराणां सहस्रैरनेकैः । एनं वह्निम् । शमयितुम् उपशमनाय । अलंशत्त्या अर्हसि योग्यो भवसि । उक्तं चैतदित्याह । उत्तमानां महताम् । सम्पदः समृद्धयः । आपन्नातिप्रशमनफलाः आपन्नानामार्तानाम् अर्तेः पीडायाः “ अतिः पीडाधनुष्कोट्योः” इत्यमरः । प्रशमनम् उपशमनमेव फलं यासां ताः तथोक्ताः । हि स्फुटम् । भवेयुरिति शेषः । अतो हिमाचलस्य दावानलस्त्वया शमयितव्य इति भावः ॥ ६२॥
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy