________________
१४१
सटीकम् । वलक्षः ” इत्यमरः । हिमाकं हिमनामधेयम् । अचलं नगम् । पश्य प्रेक्षस्व ॥ ५८ ॥ आरुह्याविर्मदकलमयूरारवैः कृष्यमाणः
कुओकुळे दधिघनमिव प्रेक्षमाणो हिमानीम् । वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः
शोभा शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५९ ॥ ५४ ॥ आरुह्येति ॥ आविर्मदकलमयूरारवैः आविर्भूतो मदः आविर्मदः तेन कलैः मधुराव्यक्ततरैः । "ध्वनौ तु मधुरास्फुटे कल:” इत्यमरः । मयूराणाम् आरवैः शब्दैः । कृष्यमाणः प्रेर्यमाणः सन् । आरुह्य उपरि गत्वा । तमिति शेषः । कुजेकुले लताभवनेलताभवने । वीप्सायां द्विः । घनं पिण्डीभूतम् । दधीव दधिवत् । हिमानीं हिमसंहतिम् । “हिमारण्यादुरौ” इति ङी । आन्चान्तादेशः । प्रेक्षमाणः अवलोकमानः । अध्वश्रमविनयने विनीयतेनेनेति विनयनम् । करणाधारे चानट् । अध्वश्रमस्य विनयने । तस्य हिमाद्रेः । शृङ्गे शिखरे । निषण्णः निविष्टः सन् । शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयां शुभ्रो यः त्रिनयनस्य ईशानदिगीशस्य वृषः वृषभः । “ सुकृते वृषभे वृषः ” इत्यमरः । तेनोत्खातेन अवतारितेन पकेन शृङ्गाग्रस्थेन । तं हिमाद्।ि सहोपमेयाम् उपमातुमर्हाम् । वृषभशृङ्गाग्रलग्नपङ्कवदित्यर्थः । शोभा कान्तिम् । वक्ष्यसि वोढासि । वहतेर्लट् । त्रिनयनेत्यत्र“पूर्वपदात्संज्ञायामिति" णत्वं न क्षुदादिषु चेति निषेधात् ॥५९॥
अध्वक्षामं शिथिलिततर्नु शैलमार्गाधिरोहा__ त्त्वामौल्लङ्घये घटयितुमसौ शक्नुयादेव वह्निः। धूमैः सान्द्रैर्वनविटपिजै तिवर्षन्नुपेयास्त्वं चेद्वायौ सरति सरलस्कन्धसङ्घट्टजन्मा ॥ ६० ॥