________________
पाभ्युदयकाव्यं कस्तूरी' इत्यमरः । अथवा नाभयः कस्तूर्यः । “ नाभिः प्रधाने कस्तूर्या मदे च कचिदीरिता ” इति विश्वः । तासां गन्धैः। सुरभिततलं सुरभिताः शिलाः यस्य तम् । प्रेक्षणीयं दर्शनीयम् । वनपरिकरम् अरण्यप्राभवम् । “ वृन्दप्राभवयोश्चैव पर्यङ्कपरिवारयोः । आरम्भे च परिस्तारे भवे परिकरस्तथा ” इत्यमरः । पश्यन् प्रेक्षमाणः । निषीद तिष्ठ । “षद, विशरणगत्यवसादनेषु” इति धातोः " पानाध्मा ” इति सीदादेशो लिट् ॥ ५७ ॥ विश्रम्याथो घन घनपथोल्लविकूटं हिमाङ्क ___ पश्योदय़ः शिखरतरुभिस्त्वामिवोपान्तयन्तम् । स्वस्याः कीर्तेरिव विधुरुचो नाकभाजां स्रवन्त्या___ स्तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ॥ ५८ ॥ विश्रम्येति ॥ अथो अनन्तरे । अथवा अथो पुनः । घन भो मेव । " मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ” इत्युभयत्राप्यमरः । विश्रम्य अध्वश्रममपनीय । घनपथोल्लचि कूटम् आकाशोल्लविशिखरं यस्य तम् । “ द्यौराकाशमन्तरिक्षं मेघवायुपथेऽपि ” इति धनञ्जयः । उद्यैरुन्नतैः । " उच्चप्रांशून्नतोदय़ोच्छ्रिताः” इत्यमरः । शिखरतरुभिः शिखरस्थवृक्षैः । त्वां भवन्तम् । उपान्तयन्तमिव उपान्तं समीपम् एतीति यन् तमिव समीपं गच्छन्तमिव । यद्वा उपान्तं करोतीति उपान्तयति उपान्तयतीति उपान्तयन् तमिव समीपमाह्वयन्तमिव । स्वस्याः स्वकीयायाः । विधुरुचः विधोरिव रुक् कान्तियस्यास्तस्याः । “स्युः प्रभारुरुचिस्त्विडूभा” इत्यमरः । कीर्तेरिव यशस इव । तस्याः प्रसिद्धायाः । नाकमाजां देवानाम् । स्रवन्त्या इव । " लवन्ती निम्नगापगा' इत्यमरः । आपगाया एव । प्रभवं प्रभवत्यस्मादिति प्रभवस्तम् उद्भवस्थानम् । “ स्थाजन्महेतुः प्रभवः स्थानं चाद्योपलब्धयः” इत्यमरः । गौरं शुभ्रम् । “ सितो गौरो