________________
सटीकम् ।
संसर्पन्त्या सपदि भवतः स्रोतसि च्छायया सा स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥ ५६ ॥ ५३ ॥
१३९
तिष्ठत्विति ॥ येन कारणेन । स्रोतसि प्रवाहे । सपदि शीघ्रम् | संसर्पन्त्या संक्रामन्त्या । भवतः तव । छायया प्रतिबिम्बेन । सा गङ्गा । अस्थानोपगतयमुनासङ्गमेव अस्थाने प्रयागात् अन्यत्र उपगतः प्राप्तो यमुनासङ्गमो यया सा तथोक्ता तद्वत् । अभिरामा मनोहरा । स्यात् भवेत् । तेन कारणेन । भृशम् अत्यर्थम् । " अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ” इत्यमरः । पीततोयोपि गृहीतसलिलोपि । इन्द्रनीलस्य इन्द्रनीलरत्नस्य । लक्ष्मीं शोभाम् । स्ववपुषि निजविग्रहे । आतन्वानः विरचयन् । भवान् त्वम् । एकक्षणमिव एकक्षणपर्यन्तम् । इवशब्दो वाक्यालङ्कारे । तिष्ठतु आस्ताम्॥५६॥
पुण्याम्बूनामिति भृतितरं चर्मपूरं प्रपूर्णः
किञ्चिद्गत्वा हिमवदचलस्यानुपादं निषीद | तत्पर्यन्ते वनपरिकरं प्रेक्षणीयं प्रपश्य
न्नासीनानां सुरभितशिलं नाभिगन्धैर्मृगाणाम् ॥ ५७ ॥
पुण्येति ॥ इति एवंप्रकारेण | पुण्याम्बूनां पुण्योदकानाम् । भृतितरं प्रकृष्टं भरणं यथा तथा । चर्मपूरं चर्म पूरयित्वा । प्रपूर्णः सम्पूर्ण: । “ चर्मोदरात् पूरेः " इति णम् । हिमवदचलस्य हिमवत्पर्वतस्य । अनुपादम् अनुपादात् प्रत्यन्तपर्वतादायतमित्यनुपादम् । " दैर्घ्य नुः" इत्यव्ययीभावः । किञ्चित् कियद्दूरम् । गत्वा । हिमवत्पर्वतसमीपे । आसितानाम् उपविष्टानाम् । मृगाणां कस्तूरीमृगाणाम् । अन्यथा नाभिगन्धानुपपत्तेः । नाभिगन्धैः कस्तूरीगन्धैः । तेषां तद्भवत्वात् । अत एव मृगनाभिसंज्ञा च । मृगनाभिर्मृगमदः
१ गंगायमुनयोस्संगमस्थानं प्रयागः । २ भवयोगेन मध्यमः ।