________________
१३८
पार्धाभ्युदयकाव्यं रिक्षे । पश्चार्धलम्बी पश्चार्धमिति पृषोदरादित्वात्साधुः । तेन लम्बते इति पश्चाधलम्बी । अधः अधस्तात् । प्राप्तमात्रः प्राप्त एव प्राप्तमात्रः सन् । पूर्वभागेन व्योम्नि स्थित्वा अग्रभागेन जलोन्मुखः सन्नित्यर्थः । पातुं पानाय । अध्यवस्थेः निश्चिनुयाः ॥ ५४॥
तीब्रोदन्याश्रमपरिगतो न त्वकञ्चेत्तदानीं
तूष्णीं स्थित्वा क्षणमिव गताध्वश्रमो जातवर्षः। मध्येगङ्गं ह्रदमधिवसेभूरि तस्याः प्रपातुं
त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ॥ ५५ ॥ तीब्रेति ॥ तदानीं तत्समये । त्वकं त्वमेव त्वकम् । “ युष्मदस्मदोः सुपोऽसोभीत्यक्” तीब्रोदन्याश्रमपरिगतः तीव्रपिपासाश्रमेण परिगतः प्राप्तः । “ क्षुत्तृडर्थेशनोदन्यदनायम्” इति तृषार्थे उदन्या इति साधुः । “उदन्या तु पिपासा तृट् तृषा" इत्यमरः । न चेत् न भवेच्चेत् । क्षणमिव क्षणपर्यन्तम् । तूष्णीं जोषम् । स्थित्वा आस्थाय । गताध्वश्रमः विगतमार्गक्लमः।जातवर्षः जातं वर्ष यस्मात्सः कृतवर्षः सन् इत्यर्थः । त्वं भवान् । तस्याः गङ्गायाः । अच्छस्फटिकविशदं निर्मलस्फटिकविशुद्धम् । भूरि बहुलम् । “ अदभ्रं भूरि भूयिष्ठम् " इति धनञ्जयः । अम्भः नीरम् । तिर्यक् तिरश्चीनं यथा तथा । प्रपातुं प्रकर्षेण पानाय । तर्कयेश्चेत् निश्चिनुयाश्चेत् । मध्येगङ्गं गङ्गाया मध्ये मध्येगङ्गम् । अव्ययीभावत्वात्सप्तमी । ह्रदम् अगाधजलम् । “ तत्रागाधजलो ह्रदः” इत्यमरः । “ वसोनूपाध्याङ्" इति आधारे द्वितीया । तन्मध्यहृदे तिष्ठेत्यर्थः ॥ ५५ ॥
तिष्ठत्वेकं क्षणमिव भवानिन्द्रनीलस्य लक्ष्मीमातन्वानः स्ववपुषि भृशं पीततोयोपि येन ।