________________
सटीकम् ।
१३७
1
अर्हत्पिनाकिनौ शम्भूः " इति धनञ्जयः । भर्तुः त्रिजगत्स्वामिनः । " भर्त्ता दातरि पोष्टरिं" इत्यमरः । आदिदेवस्य आदिब्रह्मणः । गौरी गौरवर्णवती । "टिड्डाणेञणञ्”, “गौरादिभ्यः " इति ङी । "हरिणी रोहिणी शोणी गौरी श्येनी पिशङ्ग्यपि " इति धनञ्जयः । या महागङ्गानदी । गङ्गादेवी नाम तद्वासिदेवतायाः । वक्रभ्रुकुटिरचनां वक्रा या भ्रुकुटिरचना भ्रूभङ्गकरणं ताम् । फेनैः डिण्डीरैः । " डिण्डीरोऽब्धिकफः फेनः " इत्यमरः । विहस्येव हसित्वेव । फेनानां धावल्याद्धासत्वेनोत्प्रेक्षणम् । इन्दुलमोर्मिहस्ता इन्दौ चन्द्रे लग्नाः सम्बद्धाः ऊर्मयः वीचयः एव हस्ता यस्याः सा तथोक्ता सती | केशग्रहणं शिरोरुहस्वीकृतिम् । अकरोत् । अरचयत् । तामेव सरितं तन्महागङ्गां नदीमेव । एनां सरितम् एतल्लघुगङ्गानदीम् । त्वं भवान् । कलय भावय । तयोर्भेदबुद्धिर्माभूदित्याशयः ॥ ५३ ॥
I
<<
स्वादु स्वच्छं शुचि हिमशिलासम्भवं हारि नीरं
प्राप्तामोदं तटवनपतत्पुष्प किञ्जल्कवासैः । अध्वश्रान्तिं श्लथयितुमधः प्राप्तमात्रोऽध्यवस्येस्तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी ॥ ५४ ॥
66
""
स्वाद्विति ॥ तस्याः गङ्गायाः । स्वादु मधुरम् । स्वच्छं निर्मलम् । शुचि पवित्रम् । हिमशिलासम्भवम् । हिमा चासौ शिला च हिमशिला तुषारः शीतलः शीतो हिम: इत्यमरः । यद्वा । हिमयुक्ता शिला हिमशिला तस्यां सम्भवं सम्भूतम् | हारि मनोहरम् | " हृद्यं हारि मनोहरं च रुचिरम् ” इति हलायुधः । तटवनपतत्पुष्पकिञ्जल्कवासैः तटे तीरे विद्यमानाद्वनात्पततां पुष्पकिञ्जल्कानां कुसुमकेसराणां वासैर्वासनाभिः । किञ्जल्कः केसरोऽस्त्रियाम् " इत्यमरः । प्राप्तामोदं लब्धपरिमलम् । नीरं जलम् । अध्वश्रान्ति मार्गश्रमम् । थयितुं शिथिलीकर्तुम् । सुरगज इव देवदन्तीवत् । व्योम्नि अन्त
66
1