________________
१३६
पार्श्वाभ्युदयकाव्यं
तां सेवेथाः सुभग सुरसां लोकरूढेः प्रतीतां जह्नोः कन्यां सगरतनयखर्गसोपानपङ्क्तिम् ॥ ५२ ॥
मेति ॥ सुभग हे सुमहिमन् । त्वं भवान् । उपनदिकेति नदीति मोपेक्षिष्ठाः उपेक्षां मा कृथाः । तीर्थप्रतिनिधिमपि तीर्थप्रतिकृतिमपि । कश्मलानां पापानाम् । क्षालनं निवारणमिति प्राहुः ब्रुवन्ति । प्राज्ञा इति शेषः । आशु शीघ्रेण । गत्वा प्रविश्य अवलोकय । लोकरूढेः लौकिकजनप्रसिद्धेः । प्रतीतां ख्याताम् । सगरतनयस्वर्गसोपानपङ्क्तिं सगरस्य राज्ञः तनयानां स्वर्गसोपानपङ्क्तिं स्वर्गारोहणराजिम । “ आरोहणं स्यात्सोपानम् " इत्यमरः । स्वर्गसाधनभूतामित्यर्थः । जह्नोः जह्नुराजस्य । कन्यां सुताम् । शोभनो रसो जलं शृङ्गारादिर्वा यस्यास्ताम् । तां गङ्गानदीम् । सेवेथाः आराधय । लोकरूढेः प्रसिद्धामित्यनेन सगरतनयस्वर्ग सोपानपङ्कित्वं दुकन्यात्वं च परसमयप्रसिद्धिमित्यवगन्तव्यम् ॥ ५२ ॥
1
तामेवैनां कलय सरितं त्वं प्रपाते हिमाद्रेर्गङ्गादेव्याः प्रतिनिधिगतस्यादिदेवस्य भर्तुः । गौरीवक्रभ्रुकुटिरचनां या विहस्येव फेनैः
शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५३ ॥ ५२ ॥ तामिति । हिमाद्रेः हिमवत्पर्वतस्य । प्रपाते निर्झरे । “ प्रपातो निर्झरो भृगौ ” इत्यमरः । प्रतिनिधिगतस्य गङ्गादेवी गृहशिखरकमलं कर्णिकास्थितस्य प्रतिबिम्बात्मकस्य । शम्भोः शं सुखम् अस्मात्सर्वेषां भवतीति शम्भुः । शं सुखखरूपो भवतीति वा शम्भुस्तस्य ।
१ जाह्नवीशब्दः रूढ्यैव निर्वाह्यः नद्याः ऋषिदुहितृत्वायोगात् जह्नुना नदीपानं कर्णविवरेग निस्सारणं च प्रामाणिका नांगीकुर्युः सगरतनयस्वर्गसाधकत्वमप्येवमेव कालांतरमृतानामेषां कीकसस्य गंगाजले प्लावनात्स्वर्गप्राप्तिवर्णनमप्यबालिशैर्नश्रद्धेयं इत्याशयः ।