________________
संटीकम् ।
१३५ वर्णमात्रेण वर्णेनैव कृष्णः श्यामः। न तु पापेनेत्याशयः । अन्तः शुद्धः अन्तः आत्मनि शुद्धः निर्मलो निर्दोषः । भविता । “ण्वुलज्लिहादिभ्यः” इति कृत्यः । असि भवसि । सद्य एव पवित्रभूतो भविष्यसीत्यर्थः । “वर्तमानसामीप्ये वर्तमानवद्वा” इति वर्तमानप्रत्ययः ॥५०॥ यास्ता नद्यः कुलगिरिभवाः स्वधुनीरूढिभाज- .
स्तासामेताः प्रतिनिधितया तत्समाख्याः कुनद्यः । तीर्थालोके त्वमुपसर तां जाह्नवीं यन्मयोक्तं ___ तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णाम् ॥ ५१ ॥
या इति ॥ याः कुलगिरिभवाः कुलपर्वतसमुद्भूताः । नद्यः तरङ्गिण्यः । ताः ता एव । स्वर्धनीरूढिभाजः देवनद्यः इति रूढिं प्राप्ताः । तासां नदीनाम् । प्रतिनिधितया उपमानतया । " प्रतिनिधिरुपमोपमानं स्यात् ” इत्यमरः । तत्समाख्याः तासां समाख्या नाम यासां ताः । एताः इमाः । कुनद्यः क्षुल्लकनद्यः । भवन्तीति शेषः । तीर्थालोके तीर्थस्थानसंदर्छ । त्वं भवान् । मया कमठचरदैयेन । यत् कुरुक्षेत्रम् । उक्तं प्राग्भाषितम् । तस्मात् तत्क्षेत्रात् । अनुकनखलं कनखलस्य तन्नाम्नोद्रेः समीपेअनुकनखलम् । " समीपे” इत्यव्ययीभावः । मार्गसूचनमिदम् । गच्छेः यायाः । शैलराजावतीणी शैलराजात् हिमवदभिधानात् क्षुल्लकगिरेः अवतीणी प्रवृत्ताम् । तां जाह्नवीं गङ्गानदीम् । उपसर गच्छ ॥ ५१ ॥ मोपेक्षिष्ठास्त्वमुपनदिकेत्याशु गत्वा प्रविश्य
प्राहुस्तीर्थप्रतिनिधिमपि क्षालनं कश्मलानाम् । १ पूर्वार्धरचनं अत्रत्याखवकुल्यकल्पासु नदीषु गंगासिंधुत्वेन महानदीभ्रांतिनिरासाय कृतं। २ नदीनां पापनिरासकत्वं न साक्षादिति स्याद्वादिभिर्निरूपितत्वात् परंपरया दुरितदूरीकरणमित्थं नदीजलस्नानेन वपुश्शुध्यति ।' वपुःशुद्धया मनसो नैर्मल्यं मनोनैर्मल्येन परात्मध्यानं परात्मध्यानेन कर्मणः क्षय इति ।