________________
१३४
पार्वाभ्युदयकाव्यं ता इति ॥ सः लागली पद्मबलदेवः । प्रजासु जनेषु । " प्रजा स्यात्सन्ततौ जने” इत्यमरः । बन्धुस्नेहात् बन्धाविव स्नेहस्तस्मात् । समताभावादित्यर्थः । समरविमुखः साम्परायपराङ्मुखः । जीवहिंसाविमुख इत्यर्थः । आत्तदीक्षः स्वीकृतपारिवाज्यः । एनां पृथ्वीम् एतद्भूमिं । विहरन् पर्यटन् । याः भूमीः । सिषेवे सेवते स्म किल । ताः भूमीः । पुंसां पुरुषैः वन्द्याः वन्दनीयाः। “ वा नाकस्य” इति करणे षष्ठी । भूमयः भुवः । पुरा पूर्वम् । दृष्टमात्राः दृष्टा एव दृष्टमात्राः । “ मात्रं कार्येवधारणे” इत्यमरः । ते तव । पुण्यं श्रियः विदधति कुर्वन्ति । परिगमनतः तत्र गमनात् । त्वां भवन्तम् । सपदि पुनन्त्येवं पवित्रीकुर्वन्त्येवेति निर्धारणम् ॥ ४९ ॥ सद्भिस्तीर्णाः प्रविमलतराः पुष्कलाः सुप्रसन्ना
हृद्याः सद्यः कलिमलमुषो याः सतीनां सदृक्षाः। कृत्वा तासामधिगममपां सौम्यसारखतीना
मन्तःशुद्धस्त्वमसि भविता वर्णमात्रेण कृष्णः ॥५०॥५१॥ सद्भिरिति । याः आपः । सतीनां पतिव्रतानां स्त्रीणाम् । सदृक्षाः समानाः । “ सदृक्षः सदृशः सदृक् ” इत्यमरः । सद्भिः सत्पुरुषैः । तीर्णाः प्लाविताः । प्रविमलतराः प्रकृष्टाः प्रविमलाः प्रविमलतराः । पुष्कलाः पूज्याः । “ पूर्णश्रेष्ठौ तु पुष्कलः ” इति भास्करः । सुप्रसन्नाः हृद्याः हृदयप्रियाः । " हृद्यं दयितं वल्लभं प्रियम्" इत्यमरः। सद्यः तत्काल एव । कलिमलमुषः दुष्टपापहराः । तासाम् । सौम्यसारस्वतीनां सरस्वत्याः सरस्वतीनामनद्याः इमाः सारस्वत्यः सौम्याः सुन्दराः “ सौम्यं तु सुन्दरे सोमदैवते " इत्यमरः । सौम्याश्च ताः सारस्वत्यश्च तासाम् । अपाम् अम्भसाम् । “ आपः स्त्री भूग्नि वार्वारि” इत्यमरः । अधिगमं सेवाम् । कृत्वा विधाय । त्वं भवान् ।
१ शुद्धस्त्वमपीत्यपि पाठः ।