________________
सटीकम् ।
१३३
प्रसिद्धाम् । तां वीरक्षोणीं रणभूमिम् | क्षणेन क्षणमात्रेण । व्यतीयाः उल्लङ्घ्य । भयङ्करत्वादिति भावः ॥ ४७ ॥
पुण्यक्षेत्रं तदपि भंजनीयं हि तस्योपकण्ठे यस्मिन्सोस्थात्तपसि हलभृत्प्रात्तराजर्षिवृत्तः । शार्ङ्गिण्यस्तं गतवति महीनिस्पृहो मन्मथीयां
हित्वा हालामभिमतरसां रेवतीलोचनाङ्काम् ॥ ४८ ॥
पुण्यक्षेत्रमिति । तस्य कुरुक्षेत्रस्य । उपकण्ठे समीपे । “उपकण्ठान्तिकाभ्यर्णाभ्यग्रा " इत्यमरः । यस्मिन् प्रदेशे । शार्ङ्गिणि वासुदेवे | अस्तं गतवति मरणं गते सति । सः प्रसिद्धः । हलभृत् पद्मबलदेवः । “ रेवतीरमणो रामः कामपालो हलायुधः" इत्यमरः । महीनिस्पृहः भूमौ निर्गताभिलाषः । रेवतीलोचनाङ्कां रेवत्याः स्वभार्यायाः लोचने एव अङ्कं यस्यास्ताम् । अभिमतरसाम् अभिमतोsभीष्टो रसः शृङ्गारादिर्यस्यास्ताम् । मन्मथीयां मन्मथस्येयं मन्मथीया ताम् | हालां सुराम् । सुरा हलिप्रिया हाला इत्यमरः । मन्मथावस्थैव सुरेति कुत्सितोपमा । हित्वा त्यक्त्वा । प्रात्तराजर्षिवृत्तः राजा चासौ ऋषिश्च राजर्षिः प्रात्तं प्राप्तं राजर्षेर्मुनीन्द्रस्य वृत्तं वर्त्तनं येन तथोक्तः सन् । तपसि तपश्चरणे । अस्थात् अतिष्ठत् । तदपि पुण्यक्षेत्रम् | तत्तीर्थस्थानमपि । हि स्फुटम् । भजनीयं भक्तुं योग्यं भजनीयं सेवनीयम् । त्वयेति शेषः ॥ ४८ ॥
66
""
तास्ते पुण्यं विदधति पुरा भूमयो दृष्टमात्रा वन्द्याः पुंसां परिगमनतस्तां पुनन्त्येव नद्यः । पृथ्वीमेनां सकिल विहरन्नात्तदीक्षः प्रजासु बन्धुस्नेहात्समरविमुखो लाङ्गलीयाः सिषेवे ॥ ४९ ॥ १ वरिवस्येति पुस्तकांतरे । २ बन्धुप्रीत्येत्यपि पाठः ।