________________
१३२
पार्श्वाभ्युदयकाव्यं
66
पापभीताः पापाद्भीताः । पाण्डोः पाण्डुराजस्य । पाण्डुः कुन्तीपतौ सिते " इति विश्वः । पुत्राः धर्मादितनयाः । सशङ्कं शङ्कया सह वर्त्तते यस्मिन्कर्मणि तत् । प्रतियुयुधिरे प्रयुध्यन्ते स्म । तत् क्षत्रप्रधनपिशुनम् | क्षत्रिय संग्रामसूचकम् । " प्रधनं धारणे युद्धे " इति भास्करः । “पिशुनौ खलसूचकौ " इत्यमरः । कौरवं कुरूणामिदं तथोक्तम् | क्षेत्रं विषयम् । भजेथाः सेवेथाः ॥ ४६ ॥
वीरक्षोणीं भुवनविदितां तां क्षणेन व्यतीयाः क्षात्रं तेजः प्रतिभयभटस्तम्भनैः सूचयन्तीम् । राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ ४७ ॥ ५० ॥
66
"
वीरक्षोणीमिति । यत्र रणभूमौ । गाण्डीवधन्वा गाण्डीवमिति धनुर्यस्य सः गाण्डीवधन्वा अर्जुनः । अर्जुनस्य तु गाण्डीवं गाण्डिवं पुन्नपुंसकम् ” इत्यमरः । " धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् " इत्यमरः । शितशरशतैर्निशितबाण बहुलै: । “ शितौ बाणतनूकृतौ ” इति वैजयन्ती । राजन्यानां राज्ञामपत्यानि राजन्याः । " जातौ राज्ञः " इति यः । “ ये नोव्ये " इत्यनो नलुक् । तेषां राजपुत्राणाम् । “ मूर्द्धाभिषिक्तो राजन्यः इत्यमरः । मुखानि वदनानि । त्वं भवान् । धारापातैः धाराणामुदकधाराणां पातैः प्रवर्षणैः । कमलानीव पङ्कजानीव । अभ्यवर्षत् अपातयत् । अभिमुखं दृष्ट्वा शरवर्षेण शिरांसि च्छेदयित्वा तदभिमुखं शरवृष्टिमतनोदिति वार्थः । प्रतिभयभटस्तम्भनैः भटानां स्तम्भनानि निश्चलीकरणानि तथोक्तानि प्रतिभयानि भयङ्कराणि भटस्तम्भितानि तैः । क्षात्रं क्षत्रसम्बद्धम् । तेज: ः प्रभावम् । " तेजः प्रभावे दीप्तौ च बले शुक्रेप्यतस्त्रिषु ” इत्यमरः । सूचयन्तीं दर्शयन्तीम् । भुवनविदितां लोक