________________
सटीकम् ।
१३१
त्रीकुर्वन् विषयोकुर्वन् । “योग्यभाजनयोः पात्रं ” इत्यमरः । प्रयायाः
1
व्रज ॥ ४४ ॥
इतः पादवेष्टितानि पश्चादर्धार्धवेष्टितानि ।
रम्यान्देशानिति बहुविधान्सादरं वीक्ष्यमाणो देशातिथ्यं व्रजतु स भवांस्तत्रतत्रापि वर्षन् । सस्यक्षेत्रे गिरिषु सरितामन्तिके च स्थले च
ब्रह्मावर्त्तं जनपदमध च्छायया गाहमानः ॥ ४५ ॥
रम्यानिति ॥ इति एवंप्रकारेण । बहुविधान् बहुप्रकारान् । रम्यान् मनोहरान् । देशान् जनपदान् । सादरं प्रीतिसहितं यथा तथा । वीक्ष्यमाणः वीक्ष्यते इति वीक्ष्यमाणः अवलोकयन् । तत्रतत्र तस्मिन्तस्मिन् । सस्यक्षेत्रे केदारादौ । गिरिषु पर्वतेषु । सरितां नदीनाम् । अन्तरे च समीपे च स्थले च । अन्यत्र भूतलेऽपि । अभिवर्षन् अभिषिञ्चन् । अथ अनन्तरम् । ब्रह्मावर्त्त ब्रह्मावर्त्तमपि । जनपदं देशम् । “ नीवृज्जनपदो देशविषयौ ” इत्यमरः । छायया अनातपमण्डलेन । गाहमानः प्रविशन् न तु स्वरूपेण । स भवान् त्वम् । देशातिथ्यं देशप्रत्यागतप्रतिपत्तिम् । व्रजतु गच्छतु ॥ ४५ ॥
यस्मिन्नद्यः क्षतजकलुषाः कौरवीणां चमूनां
प्रावर्तन्त प्रतियुयुधिरे यत्र चामोघशस्त्राः । पाण्डोः पुत्राः प्रतिहननतः पापभीताः सशङ्कं
क्षेत्र क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः ॥ ४६ ॥
८८
यस्मिन्निति । यस्मिन् कुरुक्षेत्रे । कौरवीणां कुरुसम्बधिनीनाम् । चमूनां सेनानाम् । क्षतजकलुषाः रक्ताविलाः । रक्तं क्षतजं शोणितम् ” इत्यमरः । नद्यः सरितः । प्रावर्त्तन्त प्रवर्त्तन्ते स्म । यत्र च कुरुक्षेत्रे । अमोघशस्त्राः सफलायुधाः । प्रतिहननतः प्राणिहिंसनात् ।