________________
१३०
पार्श्वाभ्युदयकाव्यं
रम् दयितं वल्लभं प्रियम् ” इत्यमरः । आत्मबिम्बं निजप्रतिबिम्बम् । कुन्दक्षेपानुगमधुकर श्रीमुषां कुन्दानि माध्यकुसुमानि । " माध्यं कुन्दम् " इत्यमरः । तेषां क्षेपः इतस्ततश्चलनं तस्य अनुगा अनुसारिणो ये मधुकरास्तेषां श्रियं शोभां मुष्णन्ति अपहरन्तीति तथोक्तानाम् । पथिकवनितालोचनोल्लासकानां पथिकवनितानां पान्थस्त्रीणां लोचनानां चक्षुषाम् उल्लास एवं उल्लासकास्तेषां विलासानाम् । लक्षीकुर्वन् विषयीकुर्वन् । "लक्षं लक्ष्यं शरव्यं च" इत्यमरः । उपहरेः उपनय ।। ४३ ॥
८८
तस्मिन्नध्वन्यनतिचिरयन्नध्वनीनः प्रयाया
यस्मिन्यात्राफलमविकलं लप्स्यसे दैवयोगात् । जैत्रेषूणामिव हृदिशयस्यायतानां स्वविम्बं पात्रीकुर्वन्दशपुरवधू नेत्र कौतूहलानाम् ॥ ४४ ॥ ४९ ॥
८८
तस्मिन्निति । यस्मिन्मार्गे । दैवयोगात् विधिवशात् । " दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः " इत्यमरः । अविकलं सम्पूर्णम् । यात्राफलं प्रयाणप्रयोजनम् । यात्रा स्याद्यापने गतौ " इत्यमरः । लप्स्यसे प्राप्स्यसि । तस्मिन्नध्वनि तन्मार्गे । अनतिचिरयन् अतिचिरं करोत्यतिचिरयन् न अतिचिरयन्ननतिचिरयन् । अध्वनीनः पान्थः । " अध्वानं यखौ " इति खप्रत्ययः । " अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि " इत्यमरः । हृदिशयस्य हृदि शेते इति हृदि - शयस्तस्य मन्मथस्य । आयतानां दीर्घाणाम् । “सुदूरे दीर्घमायतौ इत्यमरः । जैत्रेपूणामिव जयशीलानां वाणानामिव । " जैत्रस्त जेता । कलंबमार्गणशराः पत्री रोप इषुर्द्वयोः " इत्यमरः । दशपुरवधूनेत्रकौतूहलानां दशपुरं रन्तिदेवपत्तनम् तत्र विद्यमाना वध्वः स्त्रियस्तासां नेत्रकौतूहलानां नेत्राभिलाषाणाम् । " कुतुकं हलम् ” इत्यमरः । साभिलाषदृष्टीनामित्यर्थः । स्वबिंबं स्वमूर्ति पा
""