________________
सटीकम् ।
१२७
त्यर्थः । त्वां भवन्तम् । स्वर्वधूभिः त्रिविष्टपकान्ताभिः । क्रीडाहेतोः लीलानिमित्तम् । विमुक्तां भुवं क्षिप्तां । सितिं मेचकवर्णाम् । " सिती धवलमेचकौ " इत्यमरः । दृतिमिव चर्मपात्रमिव । " दृतिश्चर्मघटे रूषे " इति विश्वः । गगनगतयः गगने व्योम्नि गतिर्गमनं येषां ते तथोक्ताः विद्याधरादयः । दृष्टीः नेत्राणि । आवर्ज्य आसमन्तादुन्मील्य । नूनम् अवश्यं । प्रेक्षिष्यन्ते द्रक्ष्यन्ति ।। ३९ ।
अध्यासीने त्वयि कुवलयश्यामभासि क्षणं वा
सिन्धोरस्याः शशधरकरस्पर्द्धिनं तत्प्रवाहम् । द्रक्ष्यन्त्यग्राद्भुवमनिमिषां दूरमावर्ज्य दृष्टी
1
रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४० ॥ ४८ ॥ अध्यासीन इति || अस्याः सिन्धोः चर्मण्वत्याः । शशधरकरस्पद्विनं चन्द्रकिरणविजयिनं तस्मादप्यतिधवलमित्यर्थः । तत्प्रवाहं स चासौ प्रवाहश्च तम् । कुवलयश्यामभासि नीलोत्पलस्येव श्यामा भाः यस्य तस्मिन् । “ नीलोत्पलं कुवलयम् ” भारछविद्युतिदीप्तयः इत्यमरः । त्वयि भवति । क्षणं वा क्षणपर्यन्तमपि । अध्यासीने आस्थिते सति । " शीङ्ख्थासोऽधेराधारिणः " इति आधारे ईपू । अनिमिषाः सुराः । “ सुरमत्स्यावनिभिषौ ” इत्यमरः । भुवः भूकान्तायाः । स्थूलमध्येन्द्रनीलं स्थूलो महान् मध्यो मध्यमणिभूतः इन्द्रनीलो मणिर्यस्य तम् । एकम् एकयष्टिकम् । मुक्तागुणमिव मुक्ताहारवत् । अग्रात् उपरिभागात् । अयं पुरः शिखामानश्रेष्ठादिकफलादिषु ” इति भास्करः । दृष्टीः नयनानि । दूरम् आभूपर्यन्तम् । आवर्ज्य व्यापार्य । ध्रुवम् अवश्यम् । द्रक्ष्यन्ति लोकघ्यन्ते । अत्र नीलमेघसङ्गतस्य प्रवाहस्य भूकण्ठगतमुक्तागुणत्वेनोत्प्रेक्षेयमिवशब्देन व्यज्यते ॥ ४० ॥
८८
१ सप्तमी संज्ञा ।
""