________________
१२८
पार्थाभ्युदयकाव्यं एवं प्रायां सलिलविहृतिं तत्र कृत्वा मुहूर्त
वारां पुण्यां सुरगज इव व्योममार्गानुसारी । लीलां पश्यन्प्रजविपवनोद्भूतवीचीचयानां ___ तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणाम् ॥४१॥
एवमपि ॥ तत्र नद्याम् । एवं रीत्या । प्रायां बहुलाम् । वारामुदकानाम् । “ वार्वारि जलम् ” इति धनञ्जयः । पुण्यां पुण्यमिव पुण्या ताम् । तीर्थविशेषत्वात्सुकृतरूपाम् । सलिलविहृतिं विहरणं विहृतिः सलिलानां विहृतिस्तां जलक्रीडाम् । सुरगज इव ऐरावत इव । मुहूर्त स्वल्पकालपर्यन्तम् । कृत्वा विरच्य । व्योममार्गानुसारी आकाशमार्गानुसारी । परिचितभ्रूलताविभ्रमाणां ध्रुवो लता इव भ्रूलताः उपमितसमासः । तासां विभ्रमाः विलासाः परिचिताः कृप्ताः भ्रूविलासाः येषु तेषाम् । प्रजविपवनोद्भूतवीचीचयानां प्रजविना प्रवेगवता पवनेन वायुना उद्धृताः उत्कम्पिताः “प्रजवी जवनो जवः” इत्यमरः । वीचीनां चयाः वीचीचयाः तेच ते वीचीचयाश्च तेषाम् । लीलां विलासम् । पश्यन् अवलोकयन् । तां चर्मण्वतीम् । उत्तीर्य उल्लङ्घय । ब्रज गच्छ ॥ ४१ ॥ तस्याः सिन्धोरनुवनमुदक्तीरभाजां लताना
मुत्फुल्लानां ततमधुलिहां मुक्तधारं प्रवर्षन् । . सीतापूरं व्रज लघु ततो जातहार्दस्तु मानात् .
पक्ष्मोत्क्षेपादुपरि विलसत्कृष्णसारप्रमाणाम् ॥ ४२ ॥ तस्या इति ॥ तस्याः सिन्धोः तन्नद्याः । अनुवनं वनदैर्घ्यम् । " दीर्धेऽनुः” इत्यव्ययीभावः । उदक्तीरभाजाम् उत्तरतीराश्रितानाम्। उत्फुल्लानां विकसितानाम् । ततमधुलिहां तता आवृता मधुलिहो यासां तासाम् । “ मधुलिण्मधुपालिनः ” इत्यमरः । लतानां वल्लरी