________________
१२६
पार्धाभ्युदयकाव्यं त्वय्यभ्यणें हरति सलिलं तत्र राहोस्सवणे १. नूनं ज्योत्स्नाविसरविमलं तर्कयेयुर्नभोगाः। मध्ये नीलं सितमिव दुकूलोत्तरीयं पृथिव्या
स्तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् ॥ ३८ ॥ त्वयीति ।। राहोः राहुग्रहस्य । सवर्णे समानो वर्णो यस्य तस्मिन् । सः समानस्य धर्मादिष्विति समानस्य सकारादेशः । अभ्यणे समीपगते । त्वयि भवति । तत्र नद्याम् । सलिलं जलम् । हरतीति हरन् । तस्मिन् स्वीकुर्वति सति । नभोगाः नभसि गच्छन्तीति नभोगाः खेचराः । पृथुमपि पृथुलमपि । दूरभावात् दूरत्वात् तनुं सूक्ष्मतया प्रतीयमानम् । तस्याः सिन्धोः तन्नद्याः । प्रवाहंनिझरम्। ज्योत्स्नाविसरविमलं ज्योत्स्नायाश्चन्द्रिकायाः विसर इव प्रसरवत् विमलं निर्मलम् । मध्ये मध्यप्रदेशे । नीलं कृष्णम् । सितम् अन्यत्र धवलवर्णम् । पृथिव्याः भूदेव्याः । दुकूलोत्तरीयमिव क्षौमसंव्यानवस्त्रमिव । “ क्षौमं दुकूलं संव्यानमुत्तरीयं च” इत्यमरः । नूनं निश्चयेन । तर्कयेयुः ऊहयेयुः ॥ ३८ ॥ विद्युद्धीविततवपुषं कालिकाकईराङ्गं
त्वामामन्द्रध्वनितसुभगं पूर्यमाणं पयोभिः। क्रीडाहेतोः सितिमिव दृति स्वर्वधूभिर्विमुक्तां
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ण्य दृष्टीः ॥ ३९ ॥ विद्युदिति ॥ विद्युद्वध्रीविततवपुषं विद्युदेव वध्री नधी तया विततं नद्धं वपुः शरीरं यस्य तम् । “नधी वध्री वरत्रा स्यात्" इत्यमरः। कालिकाकर्बुराग कालिकेव मेघमालेव कालिकया वा कर्बुरं शबलं अङ्गं यस्य तम् । “ मेघमाला च कालिका ।' 'शबलैताश्च कर्बुरे" इत्यमरः । आमन्द्रध्वनितसुभगं ईषद्गम्भीरध्वनिना सुन्दरम् । पयोमिः नीरैः । पूर्यमाणं पूर्यत इति पूर्यमाणस्तम् । जलं स्वीकुर्वन्तमि